Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 530
________________ ( १८७ ) पचन्तीमता। श्रेयसिमता । श्रेयोमता । श्रेयसी-मता। पचन्तिहता। पचद्धता। पचन्तीहता। श्रेयसिहता। श्रेयोहता। श्रेयसीहता ॥६३॥ पचन्तितरेति-इयमनयोरतिशयेन पचन्तीति विग्रहः । पचन्तिरूपेत्यादिप्रशस्ता पचन्तीति 'त्यादेश्च प्रशस्ते रूपप्' ।।३।१५॥ इति रूपप् । ईषदसमाप्ता पचन्तीति 'अतमबादेरीषदसमाप्ते.' ७।३।१५। इति कल्पप् । पचन्तिवेत्यादि-ब्रवीतीत्यर्थेऽचि प्रकृतसूत्रे निपातनात् गुणाभावे उवादेशः स्त्रियामाप् पचन्ती चासौ ब्रुवा च । पचन्ती चासौ चेली च । चेलडिति टिद्वचनं ङयर्थम् गवोपपदात् त्रायतेः 'आतोडोऽह्वा-वामः' ।५।१।७६। इति डे गोत्रशब्दो व्युत्पाद्यते, परमसौ निन्दायामेव प्रयुज्यते । पचन्ती चासो गोत्रा च, पचन्ती चासौ मता च, पचन्ती चासो हता च । ब्रवादयः कुत्सनवचनाः तेन 'निन्द्य कुत्सनैरपापाद्यैः' ।३।१।१००। इति समासः । इदमनयोरतिशयेन प्रशस्येति श्रेयसी, सैवेति स्वार्थवाऽत्र तरः क्वचित्स्वार्थे' ।७।३।७। इत्यनुशासनात् ।।६३।। यः ।३।२।६४। हुयन्तायाः परतः स्त्रियास्तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु एकार्थे ह्रस्वः स्यात् । गौरितरा। गौरितमा । नर्तकिरूपा । कुमारिकल्पा । ब्राह्मणिब्रुवा। गागिचेली। ब्राह्मणिगोत्रा । गागिमता । गौरिहता ॥६४॥ 'चानुकृष्टं नानुवर्तते' इति न्यायात् पूर्वसूत्रे चानुकृष्टं पुवदिति नानुवर्तते गौरितरेति-इयमनयोरतिशयेन गौरी-गौरवर्णा । इयमासातिशयेन गौरी-गौरवर्णा गौरितमा । प्रशस्ता नर्तकी- नर्तकीरूपा । ईषदसमाप्ता कुमारी कुमारीकल्पा । गार्गी चासो मता-गार्गीमता । ननु प्रकृतसूत्र-विषये पिदादिनिमित्तः पुवावः

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576