Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 485
________________ ( १४२ ) यम् । असखीति किम् । सुतसखायौ। अस्त्रशस्त्रम् । प्लक्षन्यग्रोधौ । श्रद्धामेधे । लघ्वादिति किम् । कुक्कुटमयूरौ। मयूर-. कुक्कुटौ । एकमिति किम् । शङ्खदुन्दुभिवीणाः । द्वन्द्वइत्येव । विस्पष्टपटुः ॥१६॥ पृथग्योगाद् 'वा' इति निवृत्तम् । अयं भाव:-यदि विकल्प इहाप्यभिप्रेतः स्यात्तदा पूर्वसूत्रेण सहैवास्यापि सूत्रस्य पाठः कुर्याद् तथाऽकरणादत्रं विकल्पाभावः सूचितः । लध्वक्षर-करश्च शीर्षश्च करशीर्षम् 'प्राणितू०' ।३।१।१३७। इत्येकार्थत्वम् । अग्निश्च सोमश्च 'ई: षोमवरुणेऽग्ने.' ।३।२।४२। इतीकारस्य ईकारः। सूत्रे षोमेति निर्देशादी-कारसन्नियोगे षत्वं निपात्यते । वायुश्च तोय च वायुतोयम् अप्राणिजातित्वादेकत्वम् । अस्त्रं च शस्त्रं च अस्त्रशस्त्रम् । अत्र 'अप्राणि०' ।३।१।१३६। इत्येका-कार्थत्वम् । अस्त्रपदेन क्षेपणसाधनं धनुरादि सामान्येनाभिधीयते शस्त्र. : शब्देन च हिंसनसाधनमायुधमात्रमभिधीयत इत्यनयोः समानाथत्वाभावात् 'समानाम०' ।३।१।११८। इत्येकशेषो न भवति । अत्र स्वराद्यदन्तत्वादस्त्रशब्दस्य पूर्वनिपातः । प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौअत्र प्लक्षस्य द्विस्वरत्वात न्यग्रोधस्य त्रिस्वरत्वादेतदपेक्षया प्लक्षस्याल्पस्वरत्वात्पूर्वनिपातः । श्रद्धा च मेधा च श्रद्धामेधे-अत्र श्रद्धामूलकत्वादभिप्रेतार्थसिद्ध: श्रद्धाया अर्यत्वेन मेधायाः पूर्व निपातः । सम्पबमोहनीयक्षयोपशममन्तरेण ज्ञानावरणीयक्षयोपशमोऽपि दुर्गतिप्रदः। सम्यक्त्वमोहनीयक्षयोपशमेन जिनोक्ततत्त्वेषु श्रद्धा जायते तथा चोक्तम् 'रुचिनिनोक्ततत्वेषु सम्यक् श्रद्धानमुच्यते । जायते तन्निसगैण गुरोरधिगमन वा ॥ इति । तदर्थस्तु-जिनोक्ततत्त्वेषु जीवादिषूक्तस्वरूपेषु या रुचिस्तत् श्रद्धानम् । ज्ञानं केवलंतुन रुचि विना फलसिद्ध रभावात्, शाकान्नपानादि-स्वरूपवेदिनाऽपि रुचि विना न सौहित्यलक्षणं फलमवाप्यते श्रुतज्ञानवतोऽप्यङ्गारमर्दकादेरभव्यस्य दूरभव्यस्य वा जिनोक्ततत्त्वेषु रुचिरहितस्य न विवक्षितं फलं

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576