________________
( १४२ )
यम् । असखीति किम् । सुतसखायौ। अस्त्रशस्त्रम् । प्लक्षन्यग्रोधौ । श्रद्धामेधे । लघ्वादिति किम् । कुक्कुटमयूरौ। मयूर-. कुक्कुटौ । एकमिति किम् । शङ्खदुन्दुभिवीणाः । द्वन्द्वइत्येव । विस्पष्टपटुः ॥१६॥ पृथग्योगाद् 'वा' इति निवृत्तम् । अयं भाव:-यदि विकल्प इहाप्यभिप्रेतः स्यात्तदा पूर्वसूत्रेण सहैवास्यापि सूत्रस्य पाठः कुर्याद् तथाऽकरणादत्रं विकल्पाभावः सूचितः । लध्वक्षर-करश्च शीर्षश्च करशीर्षम् 'प्राणितू०' ।३।१।१३७। इत्येकार्थत्वम् । अग्निश्च सोमश्च 'ई: षोमवरुणेऽग्ने.' ।३।२।४२। इतीकारस्य ईकारः। सूत्रे षोमेति निर्देशादी-कारसन्नियोगे षत्वं निपात्यते । वायुश्च तोय च वायुतोयम् अप्राणिजातित्वादेकत्वम् । अस्त्रं च शस्त्रं च अस्त्रशस्त्रम् । अत्र 'अप्राणि०' ।३।१।१३६। इत्येका-कार्थत्वम् । अस्त्रपदेन क्षेपणसाधनं धनुरादि सामान्येनाभिधीयते शस्त्र. : शब्देन च हिंसनसाधनमायुधमात्रमभिधीयत इत्यनयोः समानाथत्वाभावात् 'समानाम०' ।३।१।११८। इत्येकशेषो न भवति । अत्र स्वराद्यदन्तत्वादस्त्रशब्दस्य पूर्वनिपातः । प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौअत्र प्लक्षस्य द्विस्वरत्वात न्यग्रोधस्य त्रिस्वरत्वादेतदपेक्षया प्लक्षस्याल्पस्वरत्वात्पूर्वनिपातः । श्रद्धा च मेधा च श्रद्धामेधे-अत्र श्रद्धामूलकत्वादभिप्रेतार्थसिद्ध: श्रद्धाया अर्यत्वेन मेधायाः पूर्व निपातः । सम्पबमोहनीयक्षयोपशममन्तरेण ज्ञानावरणीयक्षयोपशमोऽपि दुर्गतिप्रदः। सम्यक्त्वमोहनीयक्षयोपशमेन जिनोक्ततत्त्वेषु श्रद्धा जायते तथा चोक्तम्
'रुचिनिनोक्ततत्वेषु सम्यक् श्रद्धानमुच्यते ।
जायते तन्निसगैण गुरोरधिगमन वा ॥ इति । तदर्थस्तु-जिनोक्ततत्त्वेषु जीवादिषूक्तस्वरूपेषु या रुचिस्तत् श्रद्धानम् । ज्ञानं केवलंतुन रुचि विना फलसिद्ध रभावात्, शाकान्नपानादि-स्वरूपवेदिनाऽपि रुचि विना न सौहित्यलक्षणं फलमवाप्यते श्रुतज्ञानवतोऽप्यङ्गारमर्दकादेरभव्यस्य दूरभव्यस्य वा जिनोक्ततत्त्वेषु रुचिरहितस्य न विवक्षितं फलं