SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ( १४१ ) प्रियः । प्रियः कः ? गुड इति प्रियस्य विशेष्यत्वे गुडो विशेषणमिति गुडस्यैव पूर्वनिपातः प्राप्तः, प्रियो गुडः इति गुडस्य विशष्यत्वे प्रियस्यैव पूर्वनिपातः प्राप्तः उभयत्रापि प्रियस्य विकल्पेन पूर्वनिपातोऽ नेन विधीयते ॥१५७॥ कडारादयः कर्मधारये ।३।१।१५८। एते कर्मधारये प्राक् वा स्युः । कडारजैमिनिः, जैमिनकडारः । काणद्रोणः । द्रोणकाणः ॥१५८॥ कडारशब्दो वर्णविशेषवाची, जैमिनिश्च ऋषिविशेषः । कडारश्चासौ, जैमिनिश्च कडारजैमिनिः, जैमिनिकडार: काणश्चासौ द्रोणश्च काणद्रोणः । कडारादीनां गुणवचनत्वा-द्विशेषणत्वात् विशेषणम्' ।३।१।६७। इत्यत्र प्रथमोक्तत्वात् नित्यं पूर्वनिपाते प्राप्ते विकल्पेन पूर्वनिपातोऽनेन विधीयते । बहुवचनमाकृतिगणार्थम् ॥१५६।। धर्मार्थादिषु द्वन्द्वे ॥३।१।१५६॥ एषु द्वन्द्व ष्वप्राप्तप्राक्त्वं वा प्राक् स्यात् । धायौं । अर्थधर्मों। शब्दार्थो । अर्थशब्दौ ॥१५६॥ . धर्मश्चार्थश्च धर्माथी अर्थधर्मों । शब्दाचर्थश्च-शब्दाथी, अर्थशब्दौ दन्त.. त्वादर्थशब्दस्य नित्यं पूर्वनिपाते प्राप्ते-ऽनेन विकल्पेन पूर्वनिपातो विधीयते। बहुवचनमाकृतिगणार्थम् ॥१६॥ लघ्वक्षरासखीदुत्स्वराद्यदल्पस्वराय॑मेकम् ।३।१।१६०। लघ्वक्षरं सखिवजेंदुदन्तं स्वराद्यकारान्तमल्पस्वरं पूज्यवाचि चकं द्वन्द्वे प्राक् स्यात् । शरशीर्षम् । अग्नीषोमौ । वायुतो
SR No.002227
Book TitleSiddh Hemchandra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages576
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy