________________
( १४०
)
-
वस्य-असिपाणिः अत्र सर्वत्र उष्टमखादित्वादस्मादेव ज्ञापकाद् वा समासः । अत्र 'विशेषण०' ।३।१।१५०। इति विशेषणस्य मौल्यादेः प्राप्तः पूर्वनिपातोऽ नेन निषिथ्यते । अस्मादेव निषेधात् 'विशेषण.' ।३।१।१५०। इति सूत्रे विशेषणपदं समानाधिकरणब्यधिकरणोभयविधव्यावर्तकपरमिति ज्ञाप्यते । अत्र मौल्यादिः विशेषणम् इन्द्वादि च विशेष्यम् सप्तम्यर्थो हि सर्वदा स्वाधारस्य विशेषणत्वेनैव प्रतीयते । बहुवचनं प्रयोगानुसरणार्थम् ।।१५५।।
गड्वादिभ्यः ।३।१।१५६॥ .
.
गड्वादिभ्यो बहुव्रीहौ सप्तम्यन्तं प्राक् वा स्यात् । कण्ठेगडुः । गडकण्ठः । मध्ये गुरुः । गुरुमध्यः ॥१५६॥ पृथग्योगारम्भात 'वा' इत्यनुवर्तते अन्यथा पूर्वसूत्र एव यड्वादिग्रहणे कृते पूर्वनिपातनिषेधः कृतः स्यात्, पृथग्योगान्निषेधसम्बन्धाभावः सूचितः । पूर्व-सूत्रे निषेधसामर्थ्याच्च वा इत्यनुवृत्त रभावः सूचितः निषेधसम्भवाभावे चेह तदनुवृत्तिः सिद्धा भवति तथा च निषेधविकल्पविधिविकल्पयोः फले भेदाभावेऽ पि विधिविकल्प एव स्वीकृतः । गडुर्मा सग्रन्थिः-गडुः कण्ठे यस्य-कण्ठेगडुः, गडुकण्ठः। अत्र अमर्धमस्त०' ।३।२।२२। इति सूत्रण सप्तम्या अलुप् । गुरुमध्ये यस्य-मध्येगुरुः, गुरुमध्यः । अत्र ‘मध्यान्ताद् गुरौं' ।३।२।२१। इति सूत्रेण सप्तम्याः अलुप् । अत्र सर्वत्रो-ष्ट्रमुखादित्वात् समासः एवं सप्तम्यन्तमितरस्य विशेषणमिति तस्य 'विशेषणसर्वा ।३।३।१५०। इति नित्यं पूर्वनिपाते प्राप्ते विकल्पेन पूर्वनिपातोऽ नेन विधीयते । बहुवचनं प्रयोगानुसरणार्थम् ॥१५६॥
प्रियः ।३।१।१५७। अयं बहुव्रीहौ प्राक् वा स्यात् । प्रियगुडः । गुडप्रियः ॥१७॥ सप्तमीति पदं निवृत्तं प्रथमान्तनिर्देशात् । प्रियो गुडोऽ स्य प्रियगुडः, गुड