________________
( १३६ )
सूत्रैणेव विकल्पः सिद्धः तथापि व्यक्तिपरत्वविवक्षायां क्तान्तस्य नित्यं पूर्व - निपातं वारयितुं तेषां पाठ इति ज्ञ ेयम्। आहितोऽग्निर्येन स आहिताग्निः, अग्न्याहितः । आधानसंस्कारेण संस्कृतोऽग्निर्येनेत्यर्थः । तथा च नाग्नित्वेनाग्नेराधानं भवति किन्तु आहवनीयादितत्तद्व्यक्तित्वेनेति नात्र पूर्वसूत्रेण सिद्धिरिति विज्ञेयम् । जाता दन्ता अस्य जातदन्तः । बहुवचनमांकृतिगणार्थम् ॥१५३॥
प्रहरणात् । ३ । १ । १५४ ॥
प्रहरणार्थात् क्तान्तं बहुव्रीहौ वा प्राक् स्यात् । उद्यतासिः । अस्युद्यतः ॥ १५४॥
सूत्र प्रहरणशब्दो न स्वरूपपरोऽपि त्वर्थपरः, अर्थे च कार्यासम्भवात् तद्वाचिनि प्रत्यय इत्याह-प्रहरणार्थादिति । उद्यतोऽ - सिर-नेन उद्यतासि: अस्युद्यतः अत्र 'क्ताः' | ३|१| १५१ । इत्युद्यतस्य पूर्वनिपाते प्राप्तेऽसे: प्रहरणस्य वा पूर्वनिपातः । प्रह्रियतेऽनेनेति प्रहरणम् -तत्र येन प्रहारः क्रियते तादृशोऽस्यादिरपि प्रहरणार्थ, प्रहरणशब्दोऽपि प्रहरणसामान्यार्थः इति सामान्यविशेषयोरुभयोर्ग्रहणमिहाभिप्र ेतम् । तथा च कलितं प्रहरणमस्य कलित प्रहरणः प्रहरणकलितः इत्यपि द्रष्टव्यम् || १५४।।
न सप्तमीन्द्रादिभ्यश्च | ३ | १|१५५ |
इद्वादेः प्रहरणार्थाच्च प्राक् सप्तम्यन्तं बहुव्रीहौ न स्यात् इन्दुमौलिः । पद्मनाभः । असिपाणिः ॥ १५५ ॥
नत्र पादानाद् 'नवा' इति न संबध्यते । अयं भावः - नवा - शब्देन पूर्वव
✓
विकल्प उक्तः तेन च पूर्णविधि निषिध्य विकल्पो विधीयते इह च निषेधमावं न शब्देन प्रतीयते इति निषेधरूपविषयभेदात् प्रकरणभेदावगतौ पूर्व सूत्रसम्बन्धाभावबोधनात् 'न वा' इत्यस्य न सम्बन्ध इति इन्दुमौलौ यस्य इन्दुमौलिः । पद्मं ना भी अस्य पद्मनाभिः । असि: पाणा