________________
( १३८ )
विशेष्यत्वविवक्षा तदा-नेन पूर्वनिपातो भवति यदा तु द्वौ विशेषणौ तदोभयोविशेषणत्वेनाऽ विशेषेऽ-पि क्तान्तस्यानेन परत्वात् पूर्वनिपातो भवति । यथा कृतो भव्यः कटोऽ-नेनेत्यत्र कटे विशेषणद्वयं कृत इति क्तान्तं तदतिरिक्त भव्येति च तत्रोभयोविशेषणत्वेऽपि तान्तस्यानेन परत्वात् पूर्वनिपातो भवति । बहुवचनं व्याप्त्यर्थं तेन कृतप्रिय इत्यत्र परेणापि स्पर्द्ध क्तान्तस्यैव पूर्वनिपातः ।।१५१॥ जातिकालसुखादेर्नवा ।३।१।१५२॥ जातेः कालात सुखादिभ्यश्च बहुव्रीहौ क्तान्तं वा प्राक् स्यात् । शाङ्गरजग्धी । जग्धशाङ्गरा । मासजाता । जातमासा । सुखजाता । जातसुखा । दुःखहीना । हीनदुःखा ॥१५२॥ शाङ्गरं जग्धमनयेति शाङ्गरजग्धी, जग्धशाङ्गरा। शाङ्गरस्य वृक्षस्य : विकारः फलं 'दोरप्राणिनः' ।६।२॥४६॥ इति मयट् ‘फले' ।६।२।५८। इति लुप् 'यपि चादो जग्ध्' ।४।४।१६। इति जग्धादेशः अत्र कान्तस्य विशेषणत्वात्परनिपाते 'अनाच्छादजात्या०' ।२।४।४७। इति स्त्रियां ङ्यां शाङ्गरजग्धी यदा तु पूर्वनिपातस्तदा स्त्रियामपि जग्धशाङ्गरा फल-वाचकत्वादत्र शाङ्गरशब्दो जातिवाची । जातिविवक्षायां कृतः कटोऽ नेनेत्यत्र कटकृतः कृतकट: इति भवति-व्यक्तिविवक्षायां तु 'क्ताः ।३।१।१५१। इत्यस्यैव प्रवर्तनात् कृतकट इत्येव भवति । मासो जातोऽ-स्याः मासजाता • जातमासा जाताया मासो व्यतिक्रान्तः इत्यर्थः । अत्र कालो न जातिरिति 'अनाच्छाद०' ।२।४।४७। इति न डीः । सुखादयो दश 'सुखादेरनुभवे' ।३।४।३५। इति सूत्रे निर्दिष्टाः। सुखं जातमस्याः सुखजाता जातसुखा। दुःखं हीनमस्याः दुःखहीना, हीनदुःखा ॥१५२॥
आहिताग्न्यादिषु ।३।१।१५३। एषु बहुव्रीहिषु क्तान्तं वा प्राक् स्यात् । आहिताग्निः । अग्न्याहितः । जातदन्तः । दन्तजातः ॥१५३॥ यद्यप्याहिताग्यादिषु जातिवाचकैकपदक-बहुव्रीहयः-पठ्यन्ते तत्र च पूर्व