________________
( १३७ )
चित्रगुरिति - चित्रा गावोऽस्येति एकार्थं चानेकं च' | ३|१|२२| इति
- हुन्रीहिः अत चित्रा इति विशेषणम् गाव इति च विशेष्यम्, चित्रत्वेन हि गावो गवान्तराद्विशेष्यमाणाः प्रतीयन्ते ततस्तद्विशेोषमस्य पूर्वनिपातः अब 'गोश्चान्ते० | २|४| १६ | इति गोह्रस्वः सर्वशुक्ल इति सर्वशुक्ल मस्य सर्वशुक्लः अत्र शुक्ल शब्देन सर्वार्थस्य विशेष्यमाणत्वात् सर्वस्य विशेषणत्वात् विशेषणत्वाभावेऽपि सर्वादित्वात्सर्वं शब्दस्य पूर्वनिपातः । सर्वशब्दोऽत्र गुणिनिवर्ततेऽत एवं सर्वः शुक्लोयस्येतिपुसा विग्रहो न कृतः 'गुणे शुक्लादयः पु सिगुणिलिङ्गास्तुनद्वति' इति वचनात् सर्वशब्दः साकल्यकलितानां प्रकृतवस्तूनां स्त्रीपुंनपुंसकसाधारणानां बोधकः इति सामान्ये नपुंसकमिति सर्वशब्दस्य विशेष्यस्यनपुंसकतया तद्विशेषणस्य गुणिपरस्य शुक्लशब्दस्यापि क्लीबत्वं ज्ञेयम्
कृष्ण गुणावस्य द्विकृष्णः अत्र द्वौ काविति प्रश्ने कृष्णौ इति कृष्णशब्देन द्वौ विशिष्यते इति द्विशब्दस्य विशेष्यत्वेऽपि संख्याशब्दत्वात्प्राग्निपातः । कृष्णशब्दोऽत्र गुणपरः न तु गुणि- परः द्विगुण कृष्णवर्णयुक्त इत्यर्थः । विवक्षितवस्तुनो यावती कृष्णवर्णमाला ततो द्विगुणा प्रकृतपदार्थस्येति यावत् । शब्दस्पद्धे परत्वात् सर्वादिसंख्ययोः संख्याया एव पूर्वनिपातः । यथा त्रयोऽन्येस्य स त्र्यन्यः उभयोस्तु सर्वादित्वे स्पर्धे परस्य पूर्वनिपातः । यथा द्वावन्यावस्य स द्व्यः । सर्वादिसंख्ययोविशेषणत्वेऽपि पृथग्वचनं शब्दपरस्पर्धार्थम् । अयं भावः - सर्वादिसंख्ययोविशष्यत्वविवक्षायां प्रकृतसूत्रे ग्रहणं सफलमेव, किन्तु विशेषणत्वविवक्षायामपि सफलमेवेत्यपिना सूच्यते । 'प्रथमोक्तं प्राक्' | ३|१|११८ | इत्यनियमे प्राप्तेनियमार्थं वचनम् । अयं भाव::- बहुग्रीही एकार्थमितिविशेषण सर्वादिसंख्यं तद्भिन्नमपि च भवति, तत्र 'प्रथमोक्तम्' इति पूर्वनिपाते 'विशेषणसर्वादिसंख्यस्यैव पूर्वनिपातो भवति, नेतरस्य ' इति नियमो न लभ्यते, अनियम एव स्यात्, अतो विशेषणसर्वादिसंख्यस्यैव पूर्वनिपातो यथा स्यातु नेतरस्येति नियमार्थमिदं वचनमारभ्यते ।। १५० ।।
क्ताः ।३।१/१५१
तं सर्व बहुव्रीहौ प्राक् स्यात् । कृतकटः ॥ १५१॥ क्ान्तस्य विशेषणत्वात्पूर्वेण सिध्यति विशेष्यार्थं तु वचनम् । कृतःकटोऽनेन कृतकट: स्पर्द्ध परत्वार्थं च कृतो भव्यः कटोs नेन कृतभव्यकटः । अयं भावः यदा क्तान्तं विशेषणं तदा पूर्वेणैव पूर्वनिपातः सिध्यति यदा तु