________________
प्रथमोक्तप्राक ।३।१।१४८॥
अत्र समासप्रकरणे प्रथमान्तेन यनिर्दिष्टं तत् प्राक् स्यात् । आसन्नदशाः । सप्तगङ्गम् ॥१४८॥ आसन्नदशा इति–'आसन्नादूरा०' ।३।१।२०। इति समासः । तत्र प्रथमान्ततयानिर्दिष्ट: आसन्नशब्द: इति तस्यैव पूर्व प्रयोगः । सप्तगङ्गमितिअत्र संख्या समाहारे०' ।३।१।१२। इति समासः तत्र संख्या प्रथमान्ततया निर्दिष्टेति संख्यावाचकस्य सप्तेत्यस्य पूर्वनिपातः। वाक्यक्त् समासेऽप्यनियमः स्यादिति वचनम् ।।१४८॥
राजदन्तादिषु ।३।११४६
एतेषु समासेष्वप्राप्तप्राग्निपातं प्राक् स्यात् । राजदन्तः । लिप्तवासितम् ॥१४६॥ दन्तानां राजा राजदन्तः 'षष्ठययत्ना०' ।३।१७६। इति प्रथमोक्तत्वेन दन्तशब्दस्य पूर्वनिपाते प्राप्ते राजशब्दस्यानेन पूर्वनिषातः । पूर्व वासितं पश्चाल्लिप्तं-लिप्तवासितम् अत्र 'पूर्वकालैक०' ।३।१।६७। इति प्रथमोक्तत्वेन वासितस्य पूर्वनिपाते प्राप्ते लिप्तस्य पूर्वनिपातः । वासितं सुरभीकृतम्, लिप्तमुपदिग्धम् । वासितस्यैवं लेपो विधीयते लेपो इत्यवासितस्य व्यर्थ इतिवासनं पूर्वकाल एव समुचितमिति भवति तस्य 'पूर्वकाल.' ।३।११६७।इति सूत्रविषयत्वम् । बहुवचनमाकृतिगणार्थम् ।।१४९॥ .
विशेषण-सर्वादिसंख्यं बहुव्रीहौ ।३।१११५०। विशेषणं सर्वादिसंख्यावाचि च बहुव्रीही प्राक् स्यात् । चित्रगुः । सर्वशुक्लः । दिवकृष्णः ॥१५०॥