________________
'बहुगणं भेदे' ।१।१।४०। इति बहुशब्दो भेदवृत्तिः स्यात् न तु वैपुल्ये सधे वा भेदः पृथग्र पता-यथा बहवः पुरुषाः वैपुल्ये च न स्यात् यथा बहु धान्यमित्यादि बहुपदमत्र त्रित्वादिना नियतसंख्यापरं, न त्वनियतबहुत्वपरम, तथा सति परिच्छेदस्यावधारणस्य प्रतीतिर्न स्यात् । नन्वेकार्थो न स्यादित्युक्तया विशिष्य विहित एव समाहारो निषिध्येत 'चार्थे द्वन्द्वः०' ।३।१।११७। इति सामान्यतता विहितस्य कथं निषेध: ? 'सविशेषणाणां वत्तिर्न वत्तस्य च विशेषणयोगो न'इति न्यायेन स्वाभाविकी एव समाहारद्वन्द्वस्याप्राप्तिः । न च तथा सतीतरेतरेयोगोऽपि न स्यादिति वाच्यं 'सविशेषणानां वृत्तिन०' इति न्यायः 'सापेक्षमसमर्थम्' इति न्यायाश्रित एव विशेषणापेक्षस्य समस्यमानपदस्य सामर्थ्याभावात् किन्तु प्रधानस्य तु सापेक्षत्वेऽपि नासामर्थ्यमिति इतरेतरयोगे बतिपदार्थस्य प्राधान्यात्समासे क्षत्यभाव इति ।।१४६॥
वान्तिके ।३।१।१४॥
वतिपदार्थानां संख्यानस्य समीपे गम्ये द्वन्द्वएकार्थों का स्यात् । उपदशम् गोमहिषम् । उपदशाः गोमहिषाः ॥१४७॥ उपगता दश यस्य येषां वा उपदशं गोमहिषम्, उपदशा गोमहिषा इति । • नवैकादश वा गोमहिषसमूह इत्यर्थः । बहुव्रीहे: समीपिप्रधानत्वात्
द्वन्द्वार्थस्यैकत्व बहुत्वात्तदनुप्रयोगस्यापि । बहुव्रीहेरेकवचनबहुवचनान्तत्वम् । अत्र 'प्रमाणीसंख्या०' ।७।३।१२८। इति डिदत्समासान्तः ततः 'डित्यन्त्यस्वरादेः' ।२।१।११४। इत्यनो लोपः दशानां समीपम् 'विभक्तिसमीप०' ।३।१।३८। इत्यव्ययीभावे तु ‘अनः' ।७।३।८८। इति समासान्ते 'नोपदस्य तद्धिते' ७।४।६१। इत्यन्तो लुपि समीपप्रधानत्वात् उपदशं गोमहिषम्, उपदशं गोमहिषा इति भवति ॥१४७।।