________________
( १३४ )
अयं द्वन्द्वएकार्थः स्यात् । गवाश्वम् । गवाविकम् ॥१४४॥ गोश्चाश्वश्च गवाश्वम् गौश्चाविका च गवाविकम् । अविरेव अविका अजेत्यर्थः ‘पशुव्यजनानाम्' ।३।१।११३। इति विकल्पे प्राप्तेऽनेन नित्यं विधीयते । ‘स्वरे वाऽनक्षे' ।१।२।२६। इत्यवादेशःगवाश्वादिषु यथोच्चारितरूपग्रहणादन्यत्र नायं विधि: किन्तु पशुविकल्प एव भवति । गोऽश्वौ, गोऽश्वम्, गो-अश्वौ, गो-अशवम् । ‘गोऽश्वौ' इत्यत्र ‘एदोतः पदान्तेऽस्यलुक्' ।१।२।२७। इत्यकारलोपः, 'गो-अश्वौ'-इत्यत्र 'वात्यसन्धिः' ।१।।३१। इत्यसन्धिः ॥१४४।।
न दधिपय-आदिः ।३।१।१४५॥ दधिपय आयो द्वन्द्वएकार्थो न स्यात् । दधिपयसी । सप्पिमधुनी ॥१४५॥ दधिश्च पयश्च-दधिपयसी । सपिश्च मधु च सपिर्मधुनी। उभयत्र व्यञ्जनलक्षणे पशुव्यञ्जनानाम्' ।३।१।१३२। इत्येकार्थत्वविकल्पे प्राप्ते प्रतिषेधः १४५।
संख्याने ।३।१।१४६।
वत्तिपदार्थानां गणनेगम्ये द्वन्दवएकार्थो न स्यात् । दश गोमहिषाः । बहवः पाणिपादाः ॥१४६॥ संख्यायत इति संख्यानम् तस्मिन् इयत्तापरिच्छेदः संख्यानम् इदं-शब्दतो निदिश्यमानमङ गुल्यादि-संकेतेन वा बोध्यमानं परिमाणं येषां ते इयन्तः तेषां भावःइयत्ता तस्याःपरिच्छेदोऽ-वधारणं संख्यानपदबोध्यमित्यर्थः। वर्तन वर्तःसमासः भावे घत्र , वर्तो येषामस्ति तानि वर्तीनि समासावयवभूतानि पदानि तेषां येऽर्था अभिधेयास्तेषामेव संख्यानमिह विवक्षितमिति भावः। दश-गोमहिषा इति---अत्र ‘पशुव्यञ्जनानाम्' ।३।१।१३२। इति प्राप्तस्य पशुलक्षणकत्वस्या-नेन निषेधः । बहवः पाणिपादा इति- अत्र प्राणितूर्यराङ्गणाम्' ।३।१।१३७। इति प्राप्तस्य प्राण्यङ्गनिबन्धनकत्वस्यानेन निषेधः