________________
( १३३ )
एषां विविधलिङ्गानां स्वैर्द्वन्द्व एकार्थः स्यात् । गङ्गाशोणम् । कुरुकुरुक्षेत्रं । मथ रापाटलिपुत्रम् । विलिङ्गानामिति किम् । गङ्गायमुने ॥१४२॥
गङ्गा च शोणश्च गङ्गाशोणम्, कुरवश्च कुरुक्षेत्र च कुरुक्ष ेत्रम्, मथुरा च पाटलिपुत्र च मथुरापाटलिपुत्त्रम् । पुरां देशत्वात् तद्ग्रहणेनैव सिद्ध पुर्यहणं ग्रामनिषेधार्थम् जाम्बवश्च शालूकिनी च - जाम्बवशालूकिन्यौ ग्रामी प्रासादादिनिवेशविशिष्टो देश: पूः, क्षुद्रगृहादि - निवेशविशेषविशिष्टो देशो ग्रामः । देशग्रहणेन चेह जनपदानां ग्रहणं पृथग् नदीपूरग्रहणात् तेन पर्वतानां न, यथा कैलासश्च गन्धमादनं च कैलासगन्धमादने पर्वतौ । ।।१४२।।
पात्र्यशूद्रस्य । ३।१।१४३॥
पात्रार्हशुद्रवाचिनां स्वर्द्वन्द्व एकार्थः स्यात् । तक्षाप्रस्कारम् । पात्र ेति किम् ? जनङ्गमबुक्कसाः ॥१४३॥
शूद्र:, भोजने कृते सति कांस्यादि पात्र संस्कारेण भस्मोद्वर्तनादिना शुध्यति - लोके विशिष्टानां योग्यं भवति । ते पात्रमर्हन्तीति पादया: 'तमर्हति' | ५|४|१७७॥ इति यः । तक्षायस्कारमिति-तक्षाणश्चायस्काराश्चेति विग्रहः । जनगम बुक्कसाः इति - जनङ्गमाश्चण्डालाः बुक्कसास्तु म्लेच्छा इति - एतेभ्यस्त्र' वर्णिकाः स्वं पात्र न प्रयच्छन्ति तैः भोजने कृते सति पात्र संस्कारेणापि न शुध्यतीति पात्र्यग्रहणादिह न भवति । न च पात्र्यग्रहणमस्तु शूद्रग्रहणेन किमिति वाच्यं शूद्रग्रहणाभावे 'ब्राह्मणक्षत्रिवविशः' इति त्रैवर्णिकद्वन्द्व ेऽ पि एकत्वं स्यादिति । अत्र 'मास-वर्ण-भात्रानुपूर्वम्' | ३|१|१६१ | इति वर्णक्रमेण पूर्व प्रयोगः ॥ १४३ ॥
गवाश्वादिः | ३|१|१४४ |