________________
( १३२ )
पदमधीते पदकः । क्रममधीते क्रमकः । पदक्रमशब्दाभ्यामध्ययनार्थे 'पदक्रम - शिक्षा ० ' | ६ | २|१२६ । इत्यकः । पदकश्च क्रमकश्च पदकक्रमकम् । पदान्तरं क्रमस्य पाठात्पाठयोनिकटत्वम् || १४०॥
नित्यवैरस्य | ३|१।१४१।
नित्यञ्जातिनिबद्ध वैरं येषां तेषां स्वर्द्वन्द्व एकार्थः स्यात् । अहिनकुलम् । नित्यवैरस्येति किम् । देवासुराः । देवासुरम् ॥ १४१ ॥
नित्यमनिमित्तं जातिनिबद्ध ं वैरं येषां तेषां स्वैर्द्वन्द्वः एकार्थः स्यात् । अहिः सर्पः नकुलस्तदवैरी क्षुद्रजन्त्ववधि: प्रसिद्धः अनयोविरोधो जन्मत एव भवति स च यावज्जीवं तिष्ठतीति नित्यम् । देवासुराः देवासुरमिति नैषां निर्निमित्तं वैरमपि तु निमित्तसापेक्षम् । कविजन प्रसिद्धिस्त्वित्थम् अमृतादिप्राप्तिनिमित्तमिह वैरम् - अमृतोत्पत्तेः पूर्वं तु वैराभाव एव, अत एव तैः सम्भूय समुद्रमंथनार्थं प्रयत्नः कृतः । पशुविकल्पः पक्षिविकल्पश्च परत्वादनेन बाध्यते-अश्व महिषम्, काकोलूकम् । अयं भावः - अश्वस्य महिषस्य च पशुत्वेन तयोः पशुनिमित्तकः काकस्योलकस्य च पंक्षित्वेत तयोः पक्षिनिमित्तकश्च विकल्पः प्राप्तः परं तस्य नित्यवैरातिरिक्तस्थले सावकाशत्वम् अस्य च पशुपक्षिव्यतिरिक्त नित्यवैरे बाह्मणश्रमणादौ सावकाशत्वमितीह द्वयोः स्पर्द्ध परत्वादिदिदमेव प्रवर्तत इति । श्रमणो जैन साधुः । नेदं जातिकृतम्-पि तु परस्परधार्मिकभेदकृतम् इति नास्य निमित्तानतेक्षत्वम् || १४१।।
नदीदेशपुरां विलिङ्गानाम् ।१।४।१४२ ।