________________
( १३१ )
सारिहोमकारिणि यजुर्वेदविदि ऋत्विजि रूढः, तै यत्वात्तद्र पसम्बन्धं निमित्तीकृत्याध्वर्युशब्दो यजुर्वेदेऽपि निरूढलाक्षणिकः अध्वयों विहिता अध्वर्यु विहिताः ते क्रतवः अध्वर्युक्रतवः । मध्यमपदलोपिसमासः । अ-श्वमेधादयोऽध्वर्युक्तवः । ससोमको यागः क्रतुः । यजुर्बेदे विहिताः क्रतवो द्विधा ससोमकाः असोमकाश्च । सोमो लतौषधियं ज्ञोपयोगिद्रव्यम् । सोमौषधे रसेन होमः क्रियते हुतशेषश्च पीयते यस्मिन् यागे स ससोमको यागः । ससोमकयागे क्रतुशब्दो निरूढलाक्षणिक: तेनाध्वयु विहिता असोमका यागा इह न गृह्यन्ते । अर्कश्चाश्वमेधश्च-अर्काश्वमेधम् । इमावुभावपि ससोमको यागाविति इह न गृह्यन्ते । भवत्यनेनैकार्थत्वम् । गवामयनादित्यानामयन, इति-गवा मयने गोष्ठे यो यागोऽनुष्ठीयते स उपचाराद् गवामयनशब्देन कथ्यते,सं ज्ञानिमित्तको विभक्तिलोपाभावः एवं अदितेरपत्यं आदित्या देवाः तेषां स्थाने देव कुलादौ यो यागोऽ नुष्ठीयते स आदित्यानामयनशब्देन कथ्यते षष्ठया अलुप् पूर्ववत् तत्पुरुषे च परपदलिङ्गताया अनुशासनादिमौ शब्दी नित्यक्लीबलिङ्गी। इषुवज्राविति-एतौ शत्रुमारणाय सामवेदे विहितो । दर्शपौर्णमासाविति-दर्शतिथी अ-मावास्यायां विहितः यागोऽप्युपचारात् दर्श: । पौर्णमास्यां च विहितः पौर्णमास: . एतौ न मसोमको । न चेदे क्लीबवृत्तय इति प्रसज्यप्रतिषेधाश्रयणात्
राजसूयं च वाजपेयं च राज सूयवाजपेये इत्यत्र न भवत्येकार्थत्वम् ।
इमौ क्रतू पुलिङगावपि स्तः इति पयुंदासा-श्रयणेऽ-त्रापि स्यात् । सोमो .. राजा सूयते यत्रेति राजसूयम्, राजा सोतव्य-मभिषवद्वारा सम्पादयितव्यं
वा राजसूयं । वाजमन्नं घृतं वा पेयमत्र स यागः वाजपेयम् । इमी ससोमको यागविशेषौ ॥१३॥ निकटपाठस्य ।३।१।१४०॥
निकटः पाठो येषामध्येत णां तेषां स्वर्द्वन्द्वएकार्थः स्यात् । पदकक्रमकम् ॥१४०॥