________________
( १३० )
1
शब्दभिन्नं प्रत्यक्षादि प्रमाणं च । तेनावगतमप्यर्थं कार्यान्तरार्थं यदा प्रयोक्ता प्रतिपाद्यते संकीर्त्यते तदा तदेव संकीर्तनमनुवादशब्देनोच्यत इति भावः । पूर्वमेको याशिक: कमप्यर्थमेक एवोच्चारयति पश्चादन्ये याज्ञिका सम्भूय तदनुवादं कुर्वन्ति स एवास्य सूत्रस्य विषय इत्येकेषां मतमितिभावः । अक्षरार्थानुगुण्येनानुकरणमेवानुवाद इत्यपरे कथयन्ति अनु - पश्चात् वदनं - पूर्वमुच्चारणविषयीकृतस्य पश्चात्तथैव वदनमुच्चारणमनुवाद इत्यर्थाश्रयणेनेति भावः । कठकालापमिति-कठाश्च कालापाश्चेति विग्रहः । कठेन प्रोक्तो वेदः 'तेन प्रोक्त' | ६ | ३|११| इत्यं तस्य ' 'कठादिभ्यो वेदे लुप्' | ६ | ३|१८३ | इति लुप्, कठं विदन्ति अधीयते वा 'तद्वत्यधीते । ६।२।११७॥ इत्यण् तस्य 'प्रोक्तात्' | ६ |२| १२ | इति लोपे कठाः ( एवं - कलापिना प्रोक्तं वेदं विदन्ति अधीयते वेति कालापाः, अत: 'कलापि कुथुमि ०' | ७|४२ ६२ । इतीनो लुप् वृद्धिश्च प्रतिपूर्वस्य स्थाधातोरतन्य प्रत्यष्ठादिति । कठकौथुममिति कठाश्च कोयुमाश्चेति विग्रहः, कुथुमिना प्रोक्तं वेदं विदन्त्यधीयत इति कौथुमाः । उत्पूवस्य इण्धातोरद्यतन्याम् - उदगादिति । कठेषु कालापेषु च प्रतिष्ठितेषु कठेषु कौथुमेषु च उदितेषु किमपि कार्यं कैश्चित् संकेतितम् स च संकेतस्तेषां मध्ये कैश्चिद्विस्मृतः पश्चात्कश्चितेष्वेकः प्रमाणान्तरेण तेषामुदयप्रतिष्ठे अवगत्य स्वसार्थानां स्मारणायानुवदति तत्रत्योऽयं प्रयोगः इति भावः । अप्रसिद्धं कथयन्तीति-यत्र प्रमाणान्तरेणाज्ञातं वस्तु स्वोहेन बदति तत्र समाहारो न भवतीति शब्दशक्तिस्वभावः पूर्वेषां च तथैव प्रयोग इति भावः ॥१३८ ।।
अल्की बेऽध्वर्यु क्रतोः । ३।१।१३६ ।
अध्वर्यु : यजुर्वेदः । तद्विहितक्रतुवाचिनां स्वेद्वन्द्व एकार्थः स्यात् । नचेदेते क्लीववृत्तयः । अर्काश्वमेधम् । अक्लीबइति किम् । गवामयनादित्यानामयने अध्वय्विति किम् । इषुवज्रौं । क्रतोरिति किम् । दर्शपौर्णमासौ ॥ १३६ ॥
अध्वयं वः यजुर्वेदविदः तेषां वेदोऽप्यध्वर्युः, अध्वर्युं शब्दः यजुर्वेदानु