________________
( १२६ )
व्यक्तिविवक्षायां विधानार्थं जातिविवक्षायां प्राण्यङ्गाप्राण्यङ्गादिसंभेद एकत्व निराकरणार्थं च वचनम्, एतज्ज्ञापनार्थमेव च बहुवचनम् । शङ्खश्च पटहश्च शङ्खपटहमिति वाद्यद्वन्द्वः आदिपदग्राद्या मार्दङ्गिकपाणिविकादयः । प्राण्यङ्गाप्राण्यङ्गादिसंभेद इति-पूर्वसूत्रऽ-प्राणित्वेन स्वत्वं ग्राह्यमिति प्राण्यङ्गाप्राण्यङ्गयोरभयोरप्यप्राणित्वं समानमेवेति तयोरेकत्र समासे मिश्रणे पूर्वेणैकत्वं स्यादेव, एतत्सूत्रकरणे तु प्राण्यङ्गानां प्राण्यङ्ग रेव द्वन्द्व एकवदित्यर्थलाभान्न भवति तत्रैकत्वमिति भावः ॥१३७॥
चरणस्य स्थगोऽद्यतन्यामनुवादे ।३।१।१३८॥ चरणाः कठादयः। तद्वाचिनामद्यतन्यां यो स्थेणी तयोः कर्तृत्वेन सम्बन्धिनां स्वैर्द्वन्द्वोऽनुवादविषये एकार्थः स्यात् । प्रत्यष्ठात् कठकालापम् । उद्गात् कठकौथुमम् । अनुवादइति किम् ? उदगुः कठकालापाः अप्रसिद्ध कथयन्ति ॥१३८॥ शाखाध्यययननिमित्तय व्यपदेशभांजो द्विजन्मानः चरणा: कठादयः । अयं भाव:-चत्वारो वेदाः तेषां शतशः शाखाः । यां शाखां यो द्विजन्माऽधीते स तच्छाखाध्यायित्वेन तन्नाम्ना प्रसिध्यतीति प्राक्तनी परिपाटि: तथा च यच्छाखाध्यायिनस्ते तच्छाखयैव विशिष्टमपदेशं मुख्यं व्यवहारं भजन्ते तथा च ते व्यपदिश्यमानाः कठादयः चरणशब्देन व्यवह्रियन्ते इति । कर्तृत्वेन सम्बन्धिनामिति-गौणमुख्ययोः मुख्ये एव कार्यसम्प्रत्ययः' इति न्यायान्मुख्यवृत्त्या कर्ता लभ्यते । स्थेणोमुख्यकर्तुश्चरणस्योतीष्टम्, तथा • न कृत्वा यत्सामान्येनोक्तं तदेतन्यायाभि-सन्ध्यैव अन्यथा मुख्यत्वस्य लाभो न स्यात् एवञ्च-यदि मुख्यत्व-भाजा कर्ता सह सम्बन्धः तदैव समाहारः यदा भावे प्रयोगस्तदा समाहारो न भवति अयं भावः-भाव-प्रत्यये कर्ता न मुख्यतया भासते ऽपि तु भाव एव तस्यैव प्रत्ययेनोक्तत्वादिति न तत्र मुख्यः कर्तेति न भवत्येकत्वम् तथैव चा-चार्यैरुदाहृतमपीति भावप्रत्यये प्रत्यष्ठायि कठकालापै-रित्येव प्रयोगः । प्रमाणान्तरप्रतिपन्नस्यार्थस्य शब्देन संकीर्तनम्-अनुवाद: यज्ञकर्मणि शंसितानुशंस-नमित्येके, अनुकरणमित्यपरे - अन्यत् प्रमाणं प्रमाणान्तरं अन्यत्वं च प्रकृतवाक्यापेक्षया तदपेक्षया भिन्नं वाक्यन्तररूपं शब्दप्रमाणं