________________
( १२८ )
-
बहुत्व इति निवृत्तम् ‘फलस्य जातौ' ।३।१।१३५॥ इति सूत्रारम्भात् । अयं भावः-यदि बहुत्व इत्यनुवर्तत तदा फलानाम-प्राणित्वस्य जातिपरत्वस्य च सत्त्वेनानेनैव तल्लक्ष्याणां सिद्ध : पूर्वसूत्रारम्भो निरर्थक एव स्यात्, न च तद्योगाभावे. जाताविति कुतो लभ्य इति वाच्यं 'जातो' इत्यस्य प्रकृत्रसूत्र एव पाठः कार्य इत्याशयात् । आरा च शस्त्री च आरा-शस्त्रि । आर -चर्मप्रभेदिका, शस्त्री-छरिका। जातिविवक्षायामयं विधि:- व्यक्ति विवक्षायां तु यथाप्राप्तम् आरा-शस्त्रि, आरा-शस्त्रयाविमे। जातावित्येवेति-तथा चानेकद्रव्यव्यक्तिवाचकानामेवेह ग्रहणमिति नेह भवति । ' सह्यविन्ध्याविति सह्यम्च विन्ध्यश्चेति विग्रहः, एतौ पर्व विशेषवाचिनावेकव्यक्तिरूपाविति सह्यत्व-विन्ध्यत्वयोन जातित्वम् व्यक्तर-भेदस्य जातिबाधकेषु परिगणनादिति नानेन नित्यमैकार्थ्यमिति पाक्षिको इतरेतरयोगोऽ- : व भवत्येव । अप्राणीति प्राणिनो द्रव्यस्य पर्युदासेना-प्राणिनो द्रव्यस्य ग्रहणादिह न भवति-रूप-रस-गन्ध-स्पर्शाः, उत्क्षेपणा-उपक्षेपणाऽऽकुञ्चनप्रसरण-गमनानि । अत्र प्रथमं गणद्वन्द्वोदाहरणं द्वितीयं न्यायदर्शन-प्रसिद्धकर्मद्वन्द्वो-दाहरणम् ॥१३६।।
प्राणितुर्याङ्गाणाम् ।३।१।१३७। प्राणितूर्ययोरङ्गार्थानां स्वद्वन्द्वएकार्थः स्यात् । कर्णनासिकम् । मार्दङ्गिकपाणविकम् । स्वैरित्येव ? पाणिगृध्रौ । १३७॥ प्राणी च तूर्य चेति प्राणितूर्ये तयोरङ्गानि तेषां 'द्वन्दान्ते श्रयमाणं पदं प्रत्येकभिसम्बन्ध्यते इति न्यायेनाङ्गशब्दस्यान्ते श्रयमाणस्य प्रत्येक सम्बन्धात्-प्राण्यङ्गानां तूर्यङ्गाणां च स्वैद्वन्द्वः इत्यर्थो लभ्यते समाहारे कृते तु तथा न स्यात् तत्र समूहरूपेणोपस्थित्या प्रत्येकमङगशब्दसम्बन्धासम्भवात् । कणी च नासिका च कर्णनासिकम् । शङख-शाङिखकादिसमुदायस्तूर्यम्-शङ्खादयो वाद्यानि शाङ्खिकादयो वादकाः, अङ्गानिअवयवाः । मार्दङ्गिकपाणविकमिति-मृदङ्गवादनं शिल्पमस्येति मादनिकः । 'शिल्पम्' ।६।४।५७। इतीकण पणववादनं शिल्पमस्येति पाणविकः, पूर्ववदत्रापीकण, मार्दङ्गिकश्च पाणविकश्चेति विग्रहः । पाणिगृध्राविति- . अन कः प्राण्यवयवोऽ-परश्च प्राणीति स्वत्वाभावान्नैकवद्भावः । प्राण्यङ्गानां तूर्याङ्गेषु च शङ्खपटहादीनामप्राणिजातित्वात् पूर्वेण सिद्ध