________________
( १२७ )
फलस्य जातौ ।३।१।१३॥ फलवाचिनां बह्वर्थानां जातौ स्वैर्द्वन्द्वएकार्थो नित्यं स्यात् । बदरामलकम् । जाताविति किम् । एतानि बदरामलकानि सन्ति ॥१३॥ फलवाचिनां बह्वर्थानामिति-ननु जातिविवक्षायामेकवचनमेव युक्त जातेरेकत्वादिति एकेनैव बहूनां बोधायजातिविवक्ष्यत इतिजातिविवक्षायां बह्व र्थत्वमनुपपन्नमिति चेत्सत्यं जातिप्राधान्ये सति जातो व्यक्तिद्वारकबहुत्वसंख्यान्वयविवक्षायां बहुवचनम् । अयं भावः-जातो साक्षात् संख्यान्वयविवक्षाया-मेकवचनमेव प्रयुज्यते देवः पूज्यः' इत्यादिवत् तस्यामेव व्यक्तिद्वारकसंख्यान्वयविवक्षायां व्यक्तिनां बहत्वेन बहवचनमपि भवति यथा तत्रैव 'देवाः पूज्या' इति । तथा च यदा जातौ व्यक्तिद्वारकबहुत्वसंख्या विवक्षिता तदाऽनेनैकार्थ्यं भवति यदा जातिगता संख्या विवक्षिता तदैकवचनेन विग्रहात् 'बदरामलके' इत्येव भवति । बदराणि चामलकानि चेति विग्रहः बदः विकारः फलं-बदरम् 'हेमादि०' ।६।२।४५। इत्यत्र, आमलक्या विकारः फलम् आमलकम् 'दोरप्राणिनः' ।६।२।४६। इति मयट द्वयोरपि ‘फले' ।६।२।५८। इति लुप् । एतानि बदराणि सन्तीति-जातावित्युपादानात् व्यक्तिपरचोदनायां न भवति । व्यक्तय एव प्राधान्येन विवक्षितास्तत्र न भवतीत्यर्थः व्यक्तिपरा-व्यक्तिप्रधाना, चोदना उक्ति-रित्यर्थः । अन अङ्गुल्या निर्दिश्यमाना बदरामलकव्यक्तय एव न तु जातिः ।
अप्राणिपश्वादेः ।३।१।१३६। प्राणिभ्यः पश्वादिसूत्रोक्तभ्यश्च येऽन्यद्रव्यवाचिनस्तेषां जात्यर्थानाम् स्वर्द्वन्द्वएकार्थः स्यात् । आराशस्त्रि । जातावित्येव । सह्यविन्ध्यौ । प्राण्यादिवर्जनं किम् । ब्राह्मणक्षत्रियविशु द्राः । ब्राह्मणक्षत्रियविटश द्रम् । गोमहिषौ। गोमहिषम् । प्लक्षन्यग्रोधौ । प्लक्षन्यग्रोधम् । अश्वरथौ । अश्वरथम् । बदरामलके, बदरामलकम् ॥१३६॥