________________
( १२६ )
द्वन्द्वो विशिष्यते -तरूणां द्वन्द्वः, तृणानां द्वन्द्वः इत्यादि-रूपेण । न चैको बहुवचनान्तस्तरुशब्दो वृक्षशब्दस्तृणशब्दादिर्वा द्वन्द्वः । न च द्वयोस्तर्वादिशब्दयोः सह प्रयोगः 'स्यादावसंख्येयः | १|३ | ११६ । इत्येकशेषात् । नापि वृक्षादिपर्यायैः सह तस्य द्वन्द्व : 'समानाम० ' | ३|१|११८ । इत्येकशेषात्, नापि तरवश्च धवाश्चेति सामान्यविशेषयो स्तादृशप्रयोगानभिधानात् तरुत्वेनैव धवानामपि ग्रहणे तेषां प्रयोगवैयर्थ्याच्च तत्र द्वन्द्वाभावात् परिशेषाद्विशेषाणामेवद्वन्द्वः सिध्यति । प्लक्षाश्च न्यग्रोधाश्चेति प्लक्षन्यग्रोधम् प्लक्षन्यग्रोधाः । प्लक्षः पर्कटी वृक्षः, न्यग्रोधो वटः । कुशाश्च काशाश्चतिलाश्च' माषाश्च । ऋश्याश्च एणाश्च । हंसाश्च चक्रवाकाश्च । एकस्यापि पदस्य बहुत्वे भवति - प्लक्षश्च न्यग्रोधाश्च प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः, प्लक्षो च न्यग्रोधाश्च प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधा इत्यादि । एकस्यापि पदस्य बहुत्वे वर्तमानाभावे तु न भवति - प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधो । प्लक्षौ च न्यग्रोधौ च प्लक्षश्चन्यग्रोधो चेति वा - प्लक्ष - न्यग्रोधाः । यद्यपि द्विवचनान्तेन विग्रहे समुदायस्य बहुवमायाति तथापि बहुवचनग्रहणसामर्थ्यात् समास-घटकपदगतं बहुत्वमेवैकत्वनिबन्धनम् इत्यवगम्यत इत्येकस्यापि बहुत्वं विनाऽनेकवद्भावप्रतीतिरिति बोध्यम् । आरण्याः पशवो मृगा इति मृगाणामपि पशुत्वात् पशुविकल्पेनैव सिद्धे मृगाणामिहोपादान मृगाणां मृगैरेव बहुत्वे एव च द्वन्द्व एकवदिति नियमयति ॥ १३३॥
,
सेनाङ्गक्षुद्रजन्तूनाम् ।३।१।१३४॥
सेनाङ्गानां क्षुद्रजन्तूनां च बह्वर्थानां स्यात् । अश्वरथम् । यूकालिक्षम् ॥ १३४ ॥
स्वैर्द्वन्द्व एकार्थो नित्यं
पृथग्योगाद् वेति निवृत्तम् । अश्वाश्च स्थाश्च अश्वरथम्, केचित्तु सेनाङ्गानां पशूनां पशुविकल्पमिच्छन्ति - हस्त्यश्वम्, हस्त्यश्वाः । क्षुद्रजन्तवोऽल्पकायाः प्राणिन आनकुलमिह स्मयन्ते यूकाश्च लिक्षाश्च यूकलिक्षम् । यूकाः मनुजशरीरस्वेदजातास्तच्छाणितजीविन्यः, लिक्षाश्च केशाश्रिताः स्वल्पपरिमाणाः कीटाः || १३४।।