________________
( १२५ )
परादिग्रहणं पदान्तरनिवृत्त्यर्थम् तेन पूर्व-पश्चिमौ, दक्षिणा-परौ, अधर. मध्यमो, उत्तरदक्षिणी इत्यत्र बिकल्पो न भवति अर्थात् नित्यमेवेतरेतरयोग इति भावः ॥१३१॥
पशुव्यञ्जनानाम् ।३।१।१३२॥ पशूनां व्यञ्जनानां च स्वैर्द्वन्द्वएकार्थों वा स्यात् । गोमहिषम् । गोमहिषौ । दधिघृतम् । दधिघृते ॥१३२॥ पशवोऽत्र ग्राम्या गवादयो ग्राह्या: न त्वारण्याः कुरङ्गादयः, उत्तरत्र मृगग्रहणात् तत्र. 'आरण्याः पशवो मृगा.' इति मृगग्रहणेनारण्य-पशूनां ग्रहणादिति भावः । व्यञ्जनं च येनान्नस्य रसो व्यज्यतेऽभिव्यक्तीक्रियते, अन्नं रुचिमापद्यते तद् दघिघृतादि,शाकसूपादिच। गौश्च महिषश्च गोमहिषम्गोमहिषो । दधि च घृतं च दधिघृतं दधिघृते । केचित्तु सेनाङ्गानां पशूनां पशुलक्षणं विकल्पमिच्छन्ति हस्तिनश्च अश्वाश्च-हस्त्यश्वं हस्त्यश्वा इत्येव भवति न तु परमपि सेनाङ्गलक्षणमेकत्वम् । गोमहिषमित्यादावयं विधि: सावकाशः अश्वरथमित्यादौ सेनाङ्ग०' ।।१।१३४। इति विधिः सावकाशः अत्र तूभयप्राप्तौ परत्वात् सेनाङ्गविधिः स्यात् तं बाधित्वाऽयमेव विकल्प इत्येतन्मतसंग्रहार्थमन बहुवचनोपादानम् ॥१३२॥
तरुतृणधान्यमृगपक्षिणां बहुत्वे ।३।१।१३३॥ • 'एतद्वाचिनां बह्वर्थानां प्रत्येकं स्वैर्द्वन्द्वएकार्थो वा स्यात् । प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः । कुशकाशम् । कुशकाशाः । तिलमाषम् । तिलमाषाः । ऋश्यणम् । ऋश्यणाः। हंसचक्रवाकम् । हंसचक्रवाकाः ॥१३३॥ अत्र तर्वादिविशेषाणामेव ग्रहणं न सामान्यस्य तथाहि-तर्वादिशब्दैः प्रत्येक