________________
( १२४ )
वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते । द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः ।। इति लक्षणलक्षितं द्रव्यमत्र न ग्राह्यमन्यथा सुखदुःखानामपि द्र-व्यत्वं स्यात् । किन्तु गुणादीनामाश्रयोऽत्र द्रव्यत्वेन ग्राह्यः अत एव आहद्रव्यं मुणाद्याश्रय इति । विरोधिनामिति-विरोधोऽस्त्येषामिति विरोधिनः विरोधश्चात्र सहावस्थानरूप एव । सहावस्थानासहाः पदार्था विरोधिनः । सुखदुःखमिति-सुखं च दुःख-चेति विग्रहः अत्र सुखदुःखयोः सहानवस्थानलक्षणों विरोध: गुणत्वं चोभयोः समानमिति भवति सजातीयत्वम् ।लाभालाभमिति-लाभोऽभिमतवस्तु-प्राप्तिः अलाभश्च तदप्राप्तिःप्राप्यप्राप्त्योविरोधः क्रियात्वं चोभयोः समानमेव । कामक्रोधाविति-कामश्च क्रोधश्-चेति विग्रहः कामक्रोधयोः सहावस्थानमस्ति ऋद्धोऽपि कामं स्वेच्छामाचरति शीतोष्णे जल इति-उदकयोः शीतोष्णगुणवत्त्वेन ताभ्यां शब्दाभ्यां शीतोष्णगुणाश्रयो द्रव्योऽत्रोच्यते इति द्रव्यवृत्तित्वादद्रव्याणामित्युपादानान्नकायं भवति । विरोधित्व च स्पष्टमेव । बुद्धि-सुखदुःखानीतिबुद्धिश्च सुखं च दुःख चेति विग्रहः । अत्र गुणत्वेन साजात्यं सुखदुखयोविरोधित्वेऽपि। बुद्धया अविरोधिन्या अपि ताभ्यां सह कथनात् तद्वयावृत्यर्थं स्वैरिति पदमिति भावः । समाहारे चार्थे एकत्वस्येतरेतरयोगे चानेकत्वस्य सिद्धत्वात् विकल्पे सिद्धे सर्वमिदं विकल्पानुक्रमणं नियमार्थं विरोधिनामेवा द्रव्याणामेव स्वैरेवेति तथा च प्रत्युदाहरणे इतरेतरयोग एव भवति ।।१३०॥
-
अश्ववडवपूर्वापराधरोत्तराः ।३।१।१३१॥
.
एते त्रयोपि द्वन्द्वा एकार्था वा स्युः स्वैश्चेत् । अश्ववडवं । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरं । अधरोत्तरे ॥१३॥ अश्वश्च वडवा च अश्ववडवम्, अश्ववडवो। अश्ववडवेति निदेशादेवेतरेतरयोगे ह्रस्वत्वं निपात्यते अश्वशब्दो पुसि वर्तते । वडवा-शब्दः स्त्रियां वर्तते अश्ववडवयोः पशुत्वेन ‘पशुव्यञ्जनानाम्' ।३।१।१३२। इत्यग्रिमसूत्रेगैब विकल्पे सिद्ध ऽश्ववडवग्रहणं तत्पर्यायनिवृत्त्यर्थम् हयवडवे। समगहारें चार्थे एकत्वस्येतरेतरयोगे चानेकत्वस्य सिद्धत्वात् विकल्पे सिद्ध पूर्वा