________________
( १२३ )
पुष्यार्था पुनर्वसुः | ३|१|१२६ ।
पुष्यार्थान्नक्षत्रवृत्तेः परो नक्षत्रवृत्तिः पुनर्वसुः सहोत्तौ द्वयर्थः सन् एकार्थः स्यात् । उदितौ पुष्यपुनर्वसू । उदितौ तिष्यपुनर्वसू । पुष्यार्थादिति किम् ? आर्द्रापुनर्वसवः । पुनर्वसुरिति किम् । पुष्यमघाः । भ इति किम् तिष्यपुनर्वसवो बालाः ॥ १२६ ॥
एकशेषो निवृत्तः। एकमित्यनुवर्तते । अर्थग्रहणं पर्यायार्थम् पुष्यश्च पुनर्वसू च पुष्य एक पुनर्वसू द्वौ तत्र पुनर्वस्वर्यस्यैकत्वे द्वय एव द्वन्द्वः इति द्वन्द्वात द्विशेषणाच्च द्विवचनम् यदीदं न स्यात् तदा बह्वर्थो द्वन्द्व इति बहुवचनं स्यात् समाहारे तु पष्यपुनर्वसु । तिष्यपुनर्वसवो बाला इति - तिष्येण चन्द्रक्त ेन युक्तः कालः तिष्यः, पुनर्वसुभ्यां चन्द्रयुक्ताभ्यां युक्तोः कालः पुनर्वसुः 'चन्द्रयुक्तात्काले लुप् ६६ इति सूत्रेणा, 'लुप त्वयुक्त" इत्यशतत्र तस्य लोपः एवं कालत्रुतिभ्यां तिष्ये जातः तिष्यः पुनर्वस्वोर्जाती पुनर्वसू 'भर्तृ सन्ध्यादेरण' | ६|३८| इत्यनेन पुनरपि अण् तस्य च 'बहुलाग्नुराधाषुष्यार्थ- पुनर्वसु ० ' ६ । ३ । १०७ : इति लोपः एवमेकस्मिन् बाले वर्तमानस्य तिष्य-शब्दस्य द्वझोलियोर्वर्तमानस्य पुनर्वसुशब्दस्य च द्वन्द्वः तथा च तिष्यश्च बालः पुनर्वसू च बाली तिष्यपुनर्वसवः बाला इति ज्ञेयम् अत्र न नक्षत्रपरत्वमेषामपि तु तन्नक्षत्रयुक्तकालजातबाल परत्वमिति न भवत्येकार्थत्वम् । पुनर्वसुशब्दः ताराद्वयबोधकः अत्रैकवद्भावाभावात् बहुत्वाद् बहुवचनम् ।।१२६।।
,
विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः | ३ | १|१३०|
द्रव्यं गुणाद्याश्रयः । विरोधिवाचि नाम तदा श्रयवृत्तीनां द्वोवैकार्थः स्यात् । स्वैः स्वजातीयैरेवारब्धश्चेत् । सुखदुःखम् । सुखदुः-खे । लाभालाभम् । लाभालाभौ । विरोधिनामिति किम् । कामक्रोधौ । अद्रव्याणामिति किम् । शीतोष्णे जले । स्वैरिति किम् । बुद्धिसुखदुःखानि ॥१३०॥