________________
( १२२ )
ग्राम्याशिशुद्विशफसंङ्घ स्त्रीप्रायः ।३।१।१२७॥ प्राम्या अशवो ये द्विशफा द्विखुरा अर्थात्पशवस्तेषां सधे स्त्रीपुरुष-सहोक्तो प्रायः स्त्री वाध्येकः शिष्यते। स्त्रीपुरुषलात्रभेदश्चेत् । गावश्च स्त्रियः, गावश्च नरा, इमा गावः । ग्राम्येति किम् । रुरवश्चेमे रुरवश्चेमाः इमे रुरवः । अशिश्विति किम् । बर्कर्यश्च बर्कराश्च बर्कराः। द्विशफइति किम् । गर्दभाश्च गर्दभ्यश्च गर्दर्भाः । सङ्घ इति किम् । गौश्चायं गौश्चेयं इमौ गावो । प्रायइति किम् । उष्ट्राश्च उष्टयश्च उष्ट्राः ॥१२७॥ . ग्राम्येत्युपादानादारण्यानां न भवति स्त्री. शेषः। किन्तु पूर्वेण पुशेषे : इमे रुख:इति-बर्कयश्च बर्कराश्चेति-बकरशब्दः प्रकरणादिनाऽत्रा-जशिशुवाचीति न भवति स्त्रीशेष :किन्तु पूर्वेण पुशेष एव ॥१२७।।
.
क्लोबमन्येन क च वा ।३।१।१२८। । क्लीबं नप सकमन्येनाक्लोबेन सहोक्तावेकः शिष्यते । क्लीबाक्लीबमात्रभेदे तच्च शिष्यमाणं एकमेकार्थ च वा स्यात् । शुक्लं च शुक्लश्च शुक्लं,शुक्ले वा। शुक्लं च शुक्लश्च शुक्लाश्च शुक्लं शुक्लानि वा । अन्येनेति किम् । शक्लं च शुक्लं च शुक्ले । तन्मात्रभेदइत्येव हिमहिमान्यौ ॥१२८॥ शुक्लं च शुक्लं च शुक्ले । 'स्यादावसंख्येयः' ।३।१।११६। इत्येकशेषः अनेन त्वेकशेषे विकल्पेनकार्थत्वं प्रसज्येत । हिमहिमान्याविति-महद् हिममित्यर्थे हिमानी 'यवयवाना०।२।४।६५। इति की:,आन चान्त:हिमं च हिमानी चेति विग्रहः अत्र न क्लीबाक्लीवमात्रभेदः किन्त्वर्थभेदोऽपीतिनै कशेषः ।।१२।।