________________
(१२१
)
यनः पूर्ववदायनण् । नात्र केवलं वृद्धयुवप्रत्ययकृत एव मेदोऽपि तु प्रकृतिभेदोऽपीति न भवत्येकशेषः ॥ १२४ ॥
·
स्त्री | पु वच्च । ३।१।१२५ ।
वृद्धस्त्रीवाची यूना सहोक्तौ एकः शिष्यते । पुल्लिङ्गश्चायं तन्मात्रभेदे । गार्गी च गार्ग्यायणश्च गार्ग्यौं । गार्गों च गाग्र्यायणौ च गर्गान् ॥ १२५॥
पुल्लिङ्गश्चायमिति स्त्र्यर्थः पुमर्थो भवतीत्यर्थः। स्त्रीलक्षणोऽर्थोय-स्य शब्दस्य समर्थो भवतीति भावः । गार्गीति गर्गस्य वृद्धमपत्यं स्त्री गार्गी । गर्गादे यंत्र ’|६|१|४२॥ इति यत्र, 'अवर्णे वर्णस्य' | २|४| ६७॥ इत्यलोपः, यत्रो डायन च वा' | २|४|६७ | इति ङीः, 'व्यञ्जनात्तद्धितस्य' | २|४|| इति यलोपः । गर्गानिति अत्र पुंवद्भावाद् ङी- निवृत्तौ यत्रो लुप् 'शसोऽता० ' | १|४|४| इति नत्वं च । 'यत्रोश्या० ' | ६ |१| १२६ | इति यत्रो लुबपि स्त्रियां न भवतीति पुंवद्भावनिमित्तैव सा । प्रधानस्य पुंवद्भावे कृतेऽनुप्रयुज्यमानस्य पदस्यापि पुंस्त्वं भवति तेन इमौ गार्ग्याविति ||१२५।।
पुरुषः स्त्रियाः | ३|१|१२६ ।
पुरुषशब्दः प्राणिनि पुंसि रूढः स्त्रीवाचिना सहोक्तौ पुरुषः एकः शिष्यते । स्त्रीपुरुषमात्रभेदश्चेत् । ब्राह्मणश्च ब्राह्मणी च ब्राह मणौ । पुरुष इति किम् । तीरं नदनदीपतेः । तन्मात्रभेदइत्येव । स्त्रीपुं सौ ॥ १२६॥
नदनदीपतेरिति - केवलं पुंल्लिङ्गार्थत्वेऽप्राणिन्यपि पुल्लिङ्गस्त्रीलिङ्गदर्शनात् तयोरप्येकशेषः स्यादिति 'प्राणिनि ' इत्युक्तम् । तत्साहचर्यात् स्त्री· शब्दोऽपि स्त्रीत्वविशिष्टे प्राणिनि रूढ इति ज्ञेयम् तादृशस्य पुंसस्तादृश्याः स्त्रिया एव प्रकृतोपयोगिसहोक्तिसम्भवात् । स्त्रीपुंसाविति - अत्र प्रकृतिभेदोऽपीति न भवत्येकशेषः ॥ १२६ ॥