________________
(
१२० )
श्वश्रूशब्देन सहोक्तौ श्वशुरएको वा शिष्यते । श्वशुरौ । श्वश्रूश्वशुरौ ॥१२३।। द्विवचनं जाती धवयोगे च वर्तमानयोः श्वश्वोः परिग्रहार्थम् तेन जाती तन्मात्रभेदे 'पुरुषः स्त्रियाः' ।३।१।१२६।इति नित्यविधिन भवति। श्वश्रश्वशुराविति-अभ्यर्हितत्वाच्छ्वश्रू शब्दस्य पूर्वनिपातः ॥१२३।।
वृद्धोयूना तन्मात्रभेदे ।३।१।१२४। यूना सहोक्तौ वृद्धवाच्येकः शिष्यते । तन्मात्रभेदे, न चेत्प्रकृतिभेवोऽभेदो वाऽन्यः स्यात् । गार्ग्यश्च गार्यायणश्व गाग्र्यो । वृद्ध इति किम् । गर्गगाायणौ । यूनेतिः किम् । गार्ग्यगौं । तन्मात्रभेद इति किम् । गार्यवात्स्यायनौ ॥१२४॥
वृद्धः पौत्रादिः । युवा जीवद्वश्यादिः । 'पौत्रादिः वृद्धम्' ।६।१।२।इति सूत्रेण परमप्रकृतेः पौत्रादेवू द्धसंज्ञा विधीयते स एव पौत्रादिः इह वृद्धत्वेन ग्राह्यः कृत्रिमाकृत्रिमयोः कृत्रिमे' इति न्यायात् एवं 'वश्यज्यायो०' ।६।१।३। इति युवसंज्ञकमपत्यमिह युवपदेन ग्राह्यम् न तु वयोविशेषविशिष्टः । ननु 'पौत्रादि वृद्धम्' ।६।१।२। इति सूत्रे वृद्धमिति क्लीबत्वविशिष्टा संज्ञा विहिता अत्र तु पुल्लिङ्गनिर्देशः कथमिति चेत् सत्यं तत्र अपत्यशब्दापेक्षं क्लीबन्वम् इह तु तदर्थापेक्षं पुस्त्वम् अर्थो हि तस्य पमपत्यं स्त्र्यपत्यं च तत्र प्राधान्यात् परत्वाच्च पुल्लिङ्गस्यैव निर्देश इति बोध्यम् । गार्यश्चेत्यादि-गर्गस्य वृद्धापत्यं गार्ग्यः ‘गर्गादेयंत्र' ।६।१।४२। इति यत्र । तस्य युवापत्यं गाायणः ‘यत्रित्रः' ।६।१।५४। इत्यायनण। गार्यश्च गार्यश्चेति कृतेऽपि 'गाग्यौं' इति रूपं तथाऽपि क्व वृद्धयूनोर्ग्रहणमिति प्रकरणाद् व्याख्यानाद्वाज्ञेयम् । गार्ग्यगर्गाविति-अत्र परमपरुषस्य गर्गस्यैवार्यत्वात् पूर्वनिपाते कर्तव्ये परनिपातनिर्देशः प्रकृते सहार्थयोगित्वेन तस्याप्राधान्यविवक्षाद्योतनार्थः, क्वचिद् ‘गर्ग'-गाग्यौं' इत्यपि पठ्यते । गार्ग्यवात्स्यायनाविति-वत्सस्य वृद्धापत्यं वात्स्यः पूर्ववद् या तस्यापत्यं युवा वात्म्या