________________
( ११६ )
शिष्यते 'सर्वादेः स्मैस्मातौ ।१।४।७। सूत्र-टीका-मध्ये त्यदादिपाठः 'त्यद्, • तद्, यद्, अदस्, इदम्, एतद्, एक, द्वि, युष्मद्, अस्मद् भवतु, किम्' इति । त्यदादेः कृतैकशेषस्य स्त्री-पु-नपुसकलिङ्गानां युगपत् प्रयोगायोगात् पर्यायप्राप्ती शिष्यमाणलिङ्गप्राप्तौ वा 'स्त्रीनपुंसकानां सह वचने स्यात् परम्' इति लिङगानुशासनबलाद् यथापरमेव लिंग भवति-सा च चैत्रश्च तौ, स च देवदत्ता च तौ अत्र स्त्री-पूसलिङगयोः परं पुलिङगमेव भवति, सा च कुण्डे च तानि । अत्र स्त्री-नपुंसकयोः परं नपुंसकमेव भवति, स च कुण्डं च-ते । तच्च चैत्रश्च-ते । अत्र पु-नपुसकयोः परं नपुसकमेव भवति ।।१२०।।
भभातृपुत्राः स्वसृदुहितृभिः ।३।१।१२१॥ स्वस्रर्थेन सहोक्तौ भ्रावों दुहित्रर्थेन च पुत्रार्थः एकः शिष्यते । भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ॥१२१।। भ्रातराविति-अत्र भातृस्वसृशब्दयोः सरुपत्वा-भावात् 'पुरुषः स्त्रियाः' ।३।१।१२६॥ इत्यस्य न तु प्रवृत्तिः । बहवचनं पर्यायार्थम् तेन सौदर्यश्च स्वसा च-सौदयौं । भ्राता, च भगिनी च सुतौ । पत्रश्च सुता च-पुत्रावित्यादि सिद्धम् ॥१२१॥
पिता मात्रा वा ।३।१।१२२।
मातृशब्देन सहोक्तौ पितृशब्दएको वा शिष्यते । पिता च माता च पितरौ, मातापितरौ ॥१२२॥ मातापितराविति-'आ द्वन्द्व' ।३।२।३६। इति पूर्वस्याकारान्तादेशः । 'पितुदशगुणा माता गौरवेणातिरिच्यते' इति स्मरणात पाहिन्यादिमात-भिः आठरक्षितमात्रा च पुत्रस्य कल्याणमार्गदर्शनात प्रत्यक्षेणापि तदभ्यहितत्वदर्शनात् मातृशब्दस्य ‘लघ्वक्षरा०' ।३।१।६०। इत्यर्यत्वात्पूर्वनिपातः श्दशुरः श्वश्रूभ्यां वा ।३।१।१२३॥
mar.mam