________________
( ११८ )
अक्षश्च बिभीतक: अक्षाः । स्यादाविति किम्- माता च जननी, माता च धान्यस्य । मातृमातरौ । असंख्येयइति किम् । एकश्चैकश्च ॥ ११९ ॥
अर्थेनेति नानुवर्तते ।
अक्षो रथस्यावयवे पाशकेऽप्यक्षमिन्द्रिये । बिभीतकेऽ-क्षः कर्षे च शकटव्यवहारयोः ||
इत्यक्षशब्दस्य-भिन्नार्थत्वेऽ-पि सरुपत्वेनैकशेषो भवतीत्याह- -अक्षश्च शकटस्येत्यादिना अक्षश्चाक्षश्चाक्षश्चेति विग्रहः अर्थ प्रदर्शनायाऽपरोंऽ-श: अक्षा इत्येक-शेषः । मातृमतराविति - 'तृस्वसृ ० ' | १|४|३८| इति सूत्रे नप्त्रादीनामपि सिद्ध पृथगुपादानं व्यर्थं सञ्ज्ञापयति उणादिनिष्पन्नानामेषामेव वृन्तन्तानां ग्रहणं नान्येषामिति जननीवाचिमातृशब्दस्य नेह ग्रहणं तेन जननीवाचिमातृशब्दस्य 'अङ' न' | १|४| ३६ | इत्यरादेश परिच्छेतृवाचिमातृशब्दस्य तु उणादिप्रत्ययान्तत्वाभावात् 'तृस्वसृ०' | १|४|३८| इत्यारादेशे च रूपं भिद्यते । एकश्चैकश्चेति - द्वन्द्वो ऽपि न भवत्यन- भिधानात् अयं भावः - एकशब्दस्य द्वन्द्व े सति न द्वयादिरर्थोऽभिधीयतेऽपि त्वेकस्यैव पौनःपुन्यादिप्रतिपादनाय एकैकेन कृतमित्यादौ द्वित्वं क्रियते इति । संख्येय इति कर्मनिर्देशात् संख्यानवाचिनो भवत्येव विंशतिश्च विंशतिश्च विंशती, नवतिश्च नवतिश्च नवतिश्च नवतयः । द्वन्द्वापवादोऽयं विधिः तेनाकृतद्वन्द्वानामेकेकषे वाक् च वाक् च वावावित्यादि सिद्धम् अन्यथा द्वन्द्व े कृते परत्वात् चवर्गदषहः ०' | ७|३|| इति समासान्ते कृते वैरुप्यादेकश ेषो न स्यात् ||११||
त्यदादिः | ३|१|१२० ।
त्यदाद्यरन्येन च सहोतौ त्यदादिरेवैकः शिष्यते । स च चैत्रश्च तौ । स च यश्च यौ, अहं च स च त्वं च वयम् ॥१२०॥
'स्पर्द्ध” |७|४|११ε। इति त्यदादीनां मिथः सहोक्तौ यद्यत्पाठे परं तत् तदेवैकं