________________
। ११७ )
।७।३।१८। इत्यत्समासान्तः । ग्रामो ग्रामो रमणीयः इति-न केवलं चार्थे एव सहोक्तिः अपि तु वीप्सायामपि तत्र समासो मा भूदित्येतदर्थं 'चार्थे' इति पदं प्रयुक्तम् । प्लक्षश्च न्यग्रोधश्च वीक्ष्यतामिति-अत्रोभयोः पृथगेव वीक्षणक्रियया सहान्वय इति न सहोक्तिः ॥११७।।
masatssauNAARINDIANIMALMARAHDHEELeaves
समानामर्थनकः शेषः ।३।१११८॥ अर्थेन समानां समानार्थानां सहोक्तौ गम्यायामेकः शिष्यते । अर्थादन्ये निवर्तन्ते । वनश्च कुटिलन वक्रौ कुटिलौ वा । सितश्च शुक्लश्च श्वेतश्च सिताः शुक्लाः श्वेता वा । अर्थेन समानामिति किम् । प्लक्षन्यग्रोधौ । सहोक्तावित्येव । वक्राइ कुटिलध दृश्यः ॥११८॥ समानामिति-अत्र निर्धारणे समुदायिभाव सम्बन्धे वा षष्ठी न तु स्थान्यादेशभावारुपसम्बन्धे षष्ठी (स्थानषष्ठी) तथा सति अर्थ-न समानां स्थाने एक: शिष्यते आदिश्यत, इत्येक: आदेशो भवति इत्यर्थः स्यात् एवं सति बिसं च बिसंचइत्यर्थे ए-कस्यादेशरुपतया तत्सम्बन्धिसकारस्य कृतस्थतया 'नाम्यन्तस्था०' २।३।१५। इति षत्वे 'विषे' इत्यनिष्टरुपमापद्यत । निर्धारणषष्ठयां स्वीकृतायां तेषांमध्य एक एव शिष्यते इत्यर्थलाभे नान सकारो कृतो नवा कृतस्थ इति षत्वाप्राप्तौ 'विसे' इतीष्टं सिध्यति । समत्वं नाम समानत्वम्, तच्चात्र द्विधा स्वरुपतोऽथतश्च तत्रार्थतः समानत्वमिह ग्राह्यमित्यावेदनायाह-अर्थेनेति । वक्रश्चेत्यादि-बहुवचनमतन्त्रं तेन द्वयोरप्येकः शिष्यते । अतन्त्रमित्यस्या-विवक्षित-मित्यर्थः । द्वन्द्वापवादो योगः ॥११॥
स्यादावसंख्येयः ।३।१।११६। सर्वस्मिन् स्यादी विभक्तौ समानानां तुल्यरूपाणां सहोक्तावेकः शिष्यते । नतु संख्येयवाची । अक्षश्च शकटस्य, अक्षश्च देवनः,