________________
( ११६ )
व्यपेक्षाणामुद्भूतावयवभेदः समूहः इतरेतरयोगः । द्रव्याणामेवेत्यादि-एवकारेण क्रियाकारकगुणानां व्यावृत्तिः । परस्परसव्यपेक्षाणामिति एक क्रियां प्रति यानि द्रव्याणि एकमपरमपेक्ष्यैव कर्तुं त्वादिना सम्बध्यन्ते तादृशानामित्यर्थः । एतावन्मात्रविवक्षायां समाहारेऽप्यतिव्याप्तिः स्यात् अत आह— उद्भूतावयवभेदः इति समूहो द्विविधः उद्भूतावयवभेदोऽनुद्भूतावयवभेदश्च यत्र समूह - स्थितानामवयवानां स्वगतो भेदः प्रातिस्विकं तद्व्यक्तित्वमुद्भूतं विविच्य ग्रहीतुं योग्यः स उद्भूतावयवभेदः यथा शाखा इति । अत्र शाखासमुदायस्य वृक्षत्वेन वृक्षरूपसमुदायस्थितावयवानां शाखानां भेद उद्भूत इति शाखासु बहुत्वं भवति तत्रैव चावयवभेदस्यानुभूतत्वे वृक्ष इत्येकत्वमेव प्रतीयते । एवं च समासे सत्यपि इतरेतरयोगे उद्भूवावयवभेदविवक्षया यथास्वं द्वित्वबहुत्वादिप्रतीति र्भवति यथाचैत्रश्च मैत्रश्च घटं कुर्वाते, चैत्रमैत्री घटं कुर्वाते इह वाक्यसमासयोरुभयतेतरेतरयोगः, एवं चैत्रश्च मैत्रश्च दत्तश्च पटं कुर्वन्ति । चैत्रमंत्रदत्ताः पटं कुर्वन्ति । चैत्रमैत्री चैत्र मैत्रदत्ताश्च समुदायावयवभूता उद्भूतत्वात् प्रत्येकं कर्तृत्वादिना प्रतीयन्ते इति तेषां संख्याऽमि प्रतीयते इति संख्यानिबन्धनं द्विवचनं बहुवचनं च भवति । स एव तिरोहितावयवभेद: संहति प्रधानः समाहारः धवश्च खदिरश्च पलाशश्च तिष्ठति धवखदिरपलाशं तिष्ठति अत्र तु समूहस्य प्राधान्यात्तस्य चैकत्वादेकवचनमेव भवति । एषु चाद्ययोः सहोक्तयभावात्समासो न भवति, उत्तरयोस्तु चार्थयोः सहोक्त विद्यमानत्वात् समासो भवति । यद् वर्तिपदैः प्रत्येकं पदार्थानां युगपदभिधानं सा सहोक्तिः प्लक्षन्यग्रोधावित्यत्र लक्षोऽपि द्वयर्थः न्यग्रोधोऽपि द्वयर्थः, उत्तरपदेन समुदायेन वा यद् वर्ति-पदार्थानां युगपदभिधानं सा सहोक्तिरित्यन्ये । अयं भावः - वर्तिपदैः समासघटकपदे पदार्थानां स्वस्वाभिधेयानां युगपत् - एककालावच्छेदेन अभिधानं प्रतिपानं सा सहोक्तिः द्वन्द्व ं प्रत्येक पदानि समुदायार्थ- मेवा चक्षते । द्वन्द्वतत्पुरुषयोरुत्तरपदमेव समुदायार्थ- वाचकं पूर्वपदं तु तात्पर्य-ग्राहक मितिमतेनाह उत्तरपदेनेत्यादि, अन्यत्र समासे तथा स्वीकारे क्षत्यभावेऽपि द्वन्द्वे सगुदायस्यैव वाचकत्वमिति मतेनाह समुदायेन वेति । प्लक्षन्यग्रोधावित्यादिप्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधो वाक् च त्वक च वाक्त्वचम् 'चवर्ग.'
"