________________
( ११५ )
शक्यन्ते तादृशा ये न भवन्तीति भावः । अनियतक्रमयोगपद्यानाम्-न नियतः क्रमः योगपद्य वा येषाम् तेषां यथा बाल्य-यौवनादयो नियतकमा बाल्यानन्तरमेव यौवनोद्भवात् यथा च शब्द-रूप-रस गन्ध-स्पर्शाः नियतयोगपद्याः एकन्न पृथिव्यादौ पञ्चानामपि युगपदवस्थानस-द्भावात् एवम्भता ये न भवन्ति तेषामेव स्वरूपभेदेन प्रवृत्तिनिमित्त-भेदेन समुच्चीयमानता समुच्चयपदार्थः । (१) यथा चैत्र: पचति पठति च, अचैकस्मिन कारके कर्तृ रुपे पाकपाठक्रिययोः समुच्चयः (२) चैत्रो मैत्रश्च पठति, अत्रैकस्यां पाठक्रियायां कर्तृकारकयोः समुच्चयः । (३. राज्ञो गौश्चाश्वश्च, अवैकस्मिन् सम्बन्धिनि राज्ञि द्रव्ये द्रव्यद्वयस्य कारकरूपस्य गोरश्वस्य च समुच्चयः । (४) राज्ञो ब्राह्मणस्य च गौः, अत्रकस्मिन् गवि स्वे द्रव्ये स्वामिद्वयस्य समुच्च्यः । (५) शुक्लश्चायं गुणश्च अनैकस्मिन् द्रव्ये शक्ल-कृष्णयोगुणयोः समुच्चयः । (६) नीलं च तदुत्पलं च, अत्रैकस्मिन्धमिणि उत्पले नीलत्वोत्पलत्वयोर्धमयोः समावेशरूपः समुच्चयः । चशब्दं विनापि चार्थप्रतीतिः संभवति-यथा
अहरहर्नयमानो गामश्वं पुरुषं षशुम् ।
वैवस्वतो न तप्यति सुराया इव दुर्मदी॥ 'अहरहरित्यादि-श्मशानात् । प्रतिनिवृत्तः शवानुगामिभिः पठनीयोऽयं मन्त्रः । गामश्वं पुरुष पशुमिति-पुरुषपदेन मनुष्यः, पशुपदेन च गवश्वमनुजभिन्नाः सर्वे जन्तवः उपलक्षिताः तथा च सर्वान् प्राणीन् अहरहः प्रतिदिनं नयमानो वैवस्वतो यमो न तृप्यति न विरतेच्छो भवति क इव दुर्मदीव-दुःखेन यो माद्यते बहुतरसुरासेवनेनापि यस्य मदो न सम्पद्यते स यथा सुराया न तृप्यति तथा यमोऽपि गवादीन् नयमानो न तृप्यतीति भावः । तथा चात्र तस्य स्वाभाविके कर्मणि शोको न कर्तव्य-इति शोकापनोदकं वाक्यमिदम् । अत्रकस्यां नयनक्रियायां बहूनां गवादीनां समुच्चीयमानतया समुच्चयार्थप्रतीतिसद्भावोऽस्त्येव चकारस्तु न पठ्यते तस्मात चशब्दं विनाऽपि तदर्थप्रतीतिर्भवतीति सिद्धम् । गण-प्रधान-भावमात्रविशिष्ट: समुच्चय एवा-न्वाचयः यथा-बटो भिक्षामट गां चानय स हि भिक्षां तावदटति यदि च गां पश्यति तामप्यानयति । समुच्चये तु समूच्चीयमानानां तुल्यबलत्वम् इह तु गुणप्रधानभाव एकस्य प्रधान्यमपरस्य चाप्राधान्यमिति विशेषः प्रकृते बटोभिक्षाटनमुद्दे श्यतया प्रधानं गवानयनं चानुङ्गिकम्, न हि तदर्थ सचेष्ट इति भावः । द्रव्याणामेव परस्परस