________________
( ११४ )
वति विकल्पेन लोपात् तृतीयभाग इत्यपि भवति । सर्वश्वेत इति-सर्वेषां श्वेततर:-सर्वश्वेतः । अयमर्थः-सर्वे श्वेता तत्रायमतिशयेनेति श्वेततरः । अत्र 'द्वयोविभज्ये०' ।७।३।६। इति तरप्रयत्यः सर्वेषां श्वेततरः इत्यत्र 'सप्तमी चाविभागे०१२।२।१०६। इति निर्धारणे षष्ठी । अत्र गणेन तरबन्तेन निर्धारणषष्ठी-समासः तरब्लोपशच भवति । इतिशब्द: स्वरूपावधारणार्थः तेन परमो मयूरव्यंसक इति समासान्तरं न भवति उत्तरपदेन भवत्येवेत्यन्ये मयूरव्यंसकप्रियः इत्यादि,मयूरव्यंसकस्य प्रियःइतिषष्ठी-समासोऽयम् मयर-. व्यंसकः प्रियोऽस्येति बहीहिर्वा तत्र तत्परुष एवेह विवक्षितः बहनीही-तु 'प्रियः' ।३।१।१५७। इति प्रियशब्दस्य बहुग्रोही विकल्पेन प्राग्निपातविधानात् कदाचित् प्रियशब्दस्यापि पूर्वनिपाते प्रियमयूरव्यंसक इतिस्यात् परं स चा-निष्ट इति । बहुवचनमाकृतिगणार्थम् तेन विस्पष्टं पटुः विस्पष्टपटुरित्यादयोऽपि द्रष्टव्या अयं 'नाम नाम्नः' ।३।१।१८। सूत्रेपि दर्शितः यथाकृतिबलादियमपि संज्ञा बहुवचनबलात् । 'द्विबंद्ध सुबद्ध भवतीति' हि न्यायः । पूर्वेणसामान्यतः समाससंज्ञा, अनेन तत्पुरुषसमासः समासान्तेरेऽप्रवंशश्च ।।११६।। चाथे द्वन्द्वः सहोक्तौ ।३।१।१७। नाम नाम्ना सहोक्तिविषये चार्थवृत्तिः समासोद्वन्द्वः स्यात् । प्लक्षन्यग्रोधौ । काक्रवचम् । नाम नाम्नेत्यनुवृत्तावपि 'लध्वक्षरादिसूत्रे एकग्रहणात् बहुनामपि । धवखदिरपलाशाः। चार्थइति किम् ? वीप्सा सहोक्तौ माभूत् । ग्रामो ग्रामो रमणीयः । सहोताविति किम् । प्लक्षश्च न्यग्रोध व वीक्ष्यताम् ॥११७॥ समुच्चयाऽन्वाचयेतरेतरयोगभेदाच्चत्वारश्चार्थाः तत्रैकमर्थं प्रति द्वयादीना क्रियाकारकद्रव्यगुणानांतुल्यबलानामविरोधिनामनियतक्रमयोगपद्यानामरूपभे देन चीयमानता समुच्चयः,आत्मरुपभेदेन आत्मनो रूपं स्वप्रवृत्तिनिमित्तं तद्भ देन तद्वलक्ष्येन न तु घटकलशादीनामक्येन चीयमानता ढौकनम् समुच्चयः तुल्यबलानाम् समुच्चये नैकतस्य प्राधान्यं प्रत्याययितुं शक्यत इति द्वयो. स्त्रयाणां चतुरादीनां वा समुच्चीयमानता तुल्यबलता। अविरोधिनाम्सहावस्थानाभावाद्-विरुद्धानां समुच्चीयमानता न सम्भवति यथा शीतो. ष्णादिशब्दप्रतिपाद्या अर्थाः परस्परप्रतिक्षेपका भवन्ति इति ते न समुच्चेतु