________________
( ११३ )
एते तत्पुरुषसमासा निपात्यन्ते । मयूरव्यंसकः । कम्बोजमु. ण्डः । एहोडं कर्म । अश्नोतपिबता क्रिया। कुरुकटो वक्ता । गतप्रत्यागतं । क्रयक्रयिका । शाकपार्थिवः । त्रिभागः । सर्वश्वेतः । ॥११६॥
व्यंसयति छलयतीति व्यंसकः धूर्त इत्यर्थः। मयूरश्च व्यंसकश्चासौ मयूरव्यंसकः, मुण्डश्चासौ कम्बोजश्च कम्बोजमुण्डः । मयूरव्यं सक: कम्बोजमुण्डः इत्यत्र विशेष्यस्य पूर्वनिपातो निपातनात् । कम्बोजशब्द: हस्तिभेदे शङ्खभेदे देशभेदे तदेशस्थजने च वर्तते । मुण्डनं मुण्डः सोऽस्यास्तीत्यभ्राद्यः यद्वा 'मुणत प्रतिज्ञाने' अतः 'क-ग.' उणा० १७०। इति किड्डे मुण्डः परिवापितकेश: कम्बोजशब्दादपत्ये 'राष्ट्रक्षत्रियात्०' ।६।१।११४। इति द्ररत्रः 'शका०' ।६।१।१२०। इति लोपः एवं चास्य गोत्रलक्षणमिति,अत्रापि गुणशब्दस्य पूर्वनिपाते प्राप्ते जातिशब्दस्यपूर्वनिपातो निपातनात् । एहि ईडे ! स्त्रि! इति वचनं यस्मिन् कर्मणि तत् एहीडं कर्म । आङपूर्वस्य इण्क गतौ'इत्यस्य पञ्चम्या: हिप्रत्यये-'एहि'इति आगच्छति तदर्थः 'ईडिकस्तुती 'इतिधातोः ‘म्लेच्छीडे ह्रस्वश्च' (उणा-३)इत्यप्रत्यये स्त्रियामापि 'ईडा' स्त्रीति तदामन्त्रणे ईडे। ईडाशब्दोऽत्र स्त्रियां वर्तत इति प्रदर्शनाय 'स्त्रि' इति ईडे । इत्यस्य पर्यायततयो-च्यते। इतिशब्दोऽभेदार्थकः । अश्नीत-पिबतेति सातत्येनोच्यते यस्यां क्रियायां साअश्नीतपिबता क्रिया। कूरु कटमित्यमीक्ष्ण्यं कश्विदाह स कुरुकटो वक्ता गत। च तत् प्रत्यागतं च गतप्रत्यागतम् अत्रयदेव गतं तदेव प्रत्यात पूर्वापरकालविवक्षा नास्ति। क्रयः,अल्पः क्रयिका क्रयशब्दादल्पार्थ कःतदन्तःस्वाभाव्यादेव स्त्रिया वर्ततेइत्याप क्रयावयवयोगात् क्रयः क्रयिकावयवयोगात् क्रयिका क्रयश्चासौ क्रयिका च क्रयक्रयिका समुदाय-निपातनात्यूर्वपदस्य दीर्घत्वम् । गतप्रत्यागतादौ विशेषणसमासे पूर्वपदत्वानियमः स्यात्। इष्यते च गतादेरेव तदर्थमिहैतदुपादानम् एवं निपातनात् दीर्घत्वादिकमपि सिद्धम् । शाकपार्थिव इति-शाकप्रियः शाकभोजी शाकप्रधानो वा पार्थिवः शाकपार्थिवः शाकं प्रियं यस्य स शाकप्रियः । शाकं भङक्त इति शाकभोजी । शाक प्रधानमस्य शाकप्रधानः स चासौ पार्थिवश्च अत्र निपातनात् प्रियादेरुत्तरपदस्य लोपः प्रथोरपत्यं पार्थिवः यद्वा पृथित्या ईश्वरः 'पृथिवीसर्वः' ।६।४।४।१५६। इत्यत्रि पार्थिवः। त्रिभागःइति तृतीयो भागःत्रि-भागःअन्न पूरणप्रत्ययस्य वा लुग्भ