________________
( ११२ )
मन्यथा' स्वरूपम्०' इति न्यायेन तुल्यशब्दःएव विज्ञायेत। भोज्यं च तदुष्णं च भोज्योष्णम् जलम्, भोक्त शक्यं भोजनाहं वोष्णमित्यर्थः। भजधातोः ऋवत्यञ्जनाद्ध्यण' ।५।१।१७। इति ध्यण, उष्णमिति गुणो न जातिरतः समासः । स्तुत्यश्चासौ पटुश्च स्तुत्यपटुः पुरुषः। स्तोतु शक्यः स्तवना) वेत्यर्थः । स्तोतेः 'दृवग्रस्तु' ।५।१।४०। इति क्यपि 'स्तुत्य' इति । 'शक्ताह कृत्याश्च'।५।४।३५॥इति सूत्रेण कृत्याः शक्यार्थेऽर्हार्थे च ज्ञयाः। तुल्यश्चासौ संश्चेति स तुल्यसन सदृशश्चासौ महांश्चेति स सदृशमहान् । अत्र ‘सन्म- . हत्०' ।३।१।१०७। इति सूत्रविषयासत्त्वेऽपि परत्वादनेनैव समासः । सत्कृत्यं 'परमपूज्य' इत्यादिविशेषेणे सतां कृत्यमित्यादि षष्ठीसमास एवोचितः कर्मधारयसमासे त्वस्य प्रवृत्त्या कृत्यसत् पूज्यपरम इत्यादि स्यात् । बाहुलकाद्वा 'सन्महत्०।३।१।१०७। इत्यस्यैवात्र प्रवृत्तिः जात्या समासस्याजातेः पूर्वत्वस्य च प्रतिषेधार्थ वचनम् ।।१४।।
कुमारः श्रमणादिना ।३।१।११५॥ कुमारेत्येकार्थ श्रमणादिना समासस्तत्प रुषः कर्मधारयश्च स्यात् । कुमारश्रमणा । कुमारप्रजिता ॥११५॥ कृमारी चासो धमणा च कुमार-श्रमणा, कुमारी चासौ प्रजिता च कुमारप्रब्रजिता । 'पुवत् कर्मधारये' ।३।२।५७। इति पुंवद्भावः । 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति न्यायात् श्रमणादी ये स्त्रीलिङ्गाः तैः सह स्त्रीलिङ्गः कूमारशब्दः समस्यते अन्यस्तुभयलिङ्गः समस्यते । अनेनैव न्यायेन स्त्रीलिङ्गऽपि समासस्य सिद्धावपि श्रमणादीनां स्त्रीलिङ्गानां पाठः पुल्लिङ्गः पूर्वनिपाते कामचारः इति बोधनाय तेन कुमारश्रमणः प्रअजितकुमार इति । श्रमणादीनां क्रियाशब्दत्वेन कुमारापेक्षया तेषामेव पूर्व-निपातः स्यात् अथवा कुमारशब्दस्य वयोरूपगुणवचनत्वेन विशेषणत्वमितिनियमाभावेन न नैयत्येन पूर्वनिपातः स्यादिति कुमारशब्दस्य पूर्वनिपातनियमाथं वचनम् ॥११॥
मयूरव्यंसकेत्यादयः ।३।१।११६।