________________
( १११ )
जातिवचनः इति समासो न भवति कस्याश्चित् स्त्रीगब्या: 'कालाक्षी' इति संज्ञेति संज्ञाशब्दोऽयं न तु जातिवचन इति समासो न भवति । जातेविशेष्यस्य पूर्वनिपातार्थं वचनम् ।।११२।।
यवाखलतिपलितजरद्वलिनः ।३।१।११३।
युवन्नित्येकार्थमेभिः समासस्तत्पुरुषः कर्मधारयश्च स्यात् । युवखलतिः । युवपलितः । युवजरन् । युववलिनः ॥११३।। युवा चासो खलतिश्च-युवखलतिः। युवा चासौ पलितश्च युवपलितः । युवा चासौ जरंश्च युवजरन् । ननु युवां चेत् कथं जरन् भवति ? जरन् वा कथं युवा ? इति चेत् सत्यं जरत्युत्साहादियुवधर्मोपलम्भाद् युनि वाऽऽलस्यादिजरद्धर्मोपलम्भात् तद्र पारोप इति । वलयोऽस्य सन्ति वलिनः अङ्गादित्वान्नः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्'इति युवतिश्चासौ खलतिश्चयुवखलतिः ‘इतोऽक्तयर्थात्' ।२।४।३२। इति विकल्पेन स्त्रियां डीविधानात् वैकल्पिक 'खलती' इत्यपि रूपं.गृह्यते । युवतिश्चासौ पलिता च । युवतिश्चासौ जरती च । युवतिश्चासौ वलिना च विशेषण-विशेष्यभावस्य विवक्षाधीनत्वेन यून एव प्राधान्येन विवक्षित्वात् विशेष्यत्वात् परनिपाते प्राप्ते द्वयोर्वा गुणवचनत्वात् खज्जकुण्टा-दिवदनियमे पूर्वनिपातार्थ वचनम् ॥११३।।
कृत्यतुल्याख्यमजात्या ।३।१।११४॥
कृत्यान्तं तुल्यपर्यायं चैकार्थ्यमजात्येन सह समासस्तत्पुरुषःकर्मधारयश्च स्यात् । भोज्योष्णम् । स्तुत्यपटुः । तुल्यसन् । सदृश महान् । अजात्येति किम् । भोज्य ओदनः ॥११४॥ तुल्याख्यमिति-तुल्यमर्थमाचष्ट इति तुल्याख्यं 'मूलविभुजादयः' ।५।१।१४४ इति कः। तुल्यस्याख्याऽभिधास्यास्तीति वा तुल्याख्यम्। आख्याग्रहणं पर्यायार्थ