________________
( ११० )
इति शाकटायन:, तेन नीयत इति बष्कयणीति, बष्कयः, प्रौढवत्सोऽस्त्यस्या इति बष्कयिणीति साधना । कठप्रवक्त ेत्यादि - कठश्चासौ प्रवक्ता चेति । प्रवक्ता-उपाध्यायः । कठश्चासौ श्रोत्रियश्च कठश्रोत्रियः । श्रोत्रियः - छन्दोऽध्यायी वेदाध्यायीत्यर्थः । कठश्चासावध्यायकः । अध्यायकः - अध्येता । मृगधूर्तः इति मृगश्चासी धूर्तश्चेति विग्रहः । धूर्त:- वञ्चक: । मृगधूर्तः शृगालः । ननु 'निन्द्य कुत्सनने रपापाद्य : ' | ३|१|१०० । इति सूत्रेणैव समासे विशेष्यस्य पूर्वनिपातेन सिद्धेऽत्र धूर्तपदोपादानं व्यर्थमिति चेत् सत्यम्, वैयाकरण-खसूचीत्यादी तु शब्दप्रवृत्तिनिमित्तं वैयाकरणत्वं निन्द्यते अत्र तु प्रवृत्तिनिमित्ता- श्रयः मृगादिरूपः निन्द्यते इति तदाश्रयकुत्सायां समासो यथा स्यादिति धूर्त - ग्रहणम् । गोमतल्लि केत्यादि - गौश्चासौ मतल्लिका च । गौश्चासो प्रकाण्डं चेति गोमतल्लिका गोप्रकाण्डम् । शोभनोऽ-भिरूपों दर्शनीयो गौरित्यर्थः उत्तरपदस्थौ प्रशस्यार्थप्रकाशको मतल्लिका प्रकाण्डशब्दौ वाक्येन पूजा न गम्यते इति नित्यसमासावेतौ परमर्थदर्शनार्थमलौकिकं वाक्यं क्रियते । रूढ-ग्रहणादिह न भवति - गौः रमणीया, गौः शोभनाः । शोभनरमणीय - शब्द शोभनत्वं रमणीयत्वं च गुणमुपादाय प्रशंसां गमयतः न तु प्रशंसामेव मतल्लिकादिवदिति रूढग्रहणादिह न भवति । असति रूढग्रहणे तु प्रशंसा - शब्दमात्रेण समास इतीहापि स्यात् । विशेष्यस्य जातेः पूर्वनिपातार्थं वछनम् ||१११॥ .
1
चतुष्पाद्गभिण्या | ३|१|११२
चत्वारः पादा यस्या जातेस्तद्वाच्येकार्थं गर्भिण्या समासस्तत्पुरुषः कर्मधारयश्च स्यात् । गोगभिणी | महिषगभिणी । जातिरित्येव । कालाक्षी गर्भिणी ।
चतुष्पादिति चत्वारो पादा यस्याः सा चतुष्पाद् गवादिजातिः 'एकार्थ०' |३|१|२२| इति समासः, 'सुसंख्यात्' | ७|१|१५० । इति पादशब्दस्य पाद्' इत्यादेशः, 'निदु बहि' | २|३|| इति चतुरो रस्य ष: । गौश्चासा गर्भिणी च गोभिणी, महिषी चासो गर्भिणी च महिषगभिणी 'पुंवत् कर्मधारये ' | ३ |२| ५७| इति पुंवद्भावः । कालाक्षी गर्भिणीति--संज्ञा शब्दोऽयम् न तु