________________
( १०६ )
न्सखे ।७।३।१०३। इत्यनेन विहितः किंगौरित्यत्र ‘गोस्तत्पुरुषात्' ।७।३।१०५। इत्यनेन विहितश्च समासान्तो न भवति । को राजा तत्रेति-अत्र किंशब्दः प्रश्ने न क्षेपे इति समासो न भवति । 'विशेषणं विशेष्ये०' ।३।१।६६। इत्येव सिद्ध क्षेप एवेति नियमाथं वचनम् ॥११०।।
पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहबष्कयणीप्रवक्त श्रोत्रियाध्यायकर्तप्रशंसारूढे तिः ।३।१११११॥ पोटादिभिः प्रशंशारूढेश्च सह जातिवाच्येकार्थ समासस्तपुरूषः कर्मधारयश्च स्यात् । इभ्यपोटा । नागयुवतिः । अग्निस्तोकम् । दधिकतिपयम् । गोगृष्टिः । गोधेनुः । गोवशा । गोवेहत् । गोबकयणी । कठप्रवक्ता । कठश्रोत्रियः कठाध्यायकः । मृगधूर्तः । गोमतल्लिका । गोप्रकाण्डम् ॥१११॥ इभ्यपोटेति इभ्या च सा पोटा चे-ति विग्रहः । इभ्या करेणुः स्थौल्यगुणयोगेन मनुष्यां प्रयोगात् 'इभ्या' इति जाति: पुरुषवेषधारिणी स्त्री पोटा गर्भ एव दास्यं प्राप्ता वा । या मातृग स्थितैव धनिकेन भोगार्थ क्रीतेत्यर्थः । उभयव्यञ्जना वा स्त्रीपुरुषोभयलक्षणेत्यर्थः । नागयुवति-रिति गजवाची सर्पवाची च नागशब्द: स्थौल्यगुणयोगात सादृश्येनान्यत्र स्त्रियांप्रयुज्यत इत्यङ्गीकारे नागी चासौ युवतिश्चेति 'भाजगोण०' ।२।४।३०। इति डीः सर्पवाचिनो नागशब्दस्य दैर्घ्यगणयोगादन्यत्र स्त्रियां प्रयोगे नागा चासो युवतिश्चेति विग्रहः । अग्निस्तोक्रमिति-अग्निश्चासौ स्तोकं चेति विग्रहः स्तोचनं भावे घत्रि न्यङ्कवादित्वात् कत्वे स्तोकः सोऽ स्यास्तीत्य भ्राद्यप्रत्यये स्तोकम्, 'वरं विरोधः' इति-वत् भिन्नलिङ्गयोरपि सामानाधिकरण्यम् । दधिकतिपयमिति-दधि च तत् कतिपयं चेति विग्रहः । गोगष्टिरित्यादि-गौश्चासौ गृष्टिचेति गृष्टि: सकृत्प्रसूता । गौश्चासौ धेनुश्च गोधेनुः । धेनुः नवप्रसूता । गौश्चासौ वशा च गोवशा। वशा-वन्ध्या । गौश्चासो वेहच्च गोवेहत् वेहत् गर्भघातिनी। विहन्तिगर्भमिति संश्चद्वेहत्' । उणा ८८२ । इति निपातनम् वेहत् । गौश्चासौ बष्कयणी च गोबष्कपणी। अत्र पाठद्वयं दश्यते बष्कयणी, बष्कयिणी' इति 'वष्कयस्त्वेकहायनो वत्सः'