________________
( १०८ )
उत्तरश्च पाक्षिकाविति तत्र कतरकतमयोरेकार्थत्वम् तत्र प्रश्नस्यानेकविषयसम्भवेनेह विशिष्टविषयत्वमाह - जातिप्रश्ने इति-जातिप्रश्न - वाचकयोरेतयो जतिवाचिनाम्नैव सह व्यपेक्षारूप मेकार्थीभावरूपं वा सामर्थ्यं भवितुमर्हतीति जातिप्रश्नपदसामर्थ्यादेव जातिवाचिनाम्नवानयोः समासो लभ्येत इत्यत उक्त जात्यर्थेनेति - कतरश्चासौ कठश्चेति कतरकठः । कठेन प्रोक्तमधीत इति कठः भवतां मध्ये कतरः कठोक्तशाखाध्यायीति प्रयोगार्थः कठशब्दात 'तेन प्रोक्त' | ६ |३|१८१ इत्यण 'कठादिभ्यो वेदे . लुप्' |६| ३ १७३॥ इति तस्य लोपः कठं वेत्त्यधीते वेति 'सवेत्त्यधीते' ६ |२| ११७| इत्यण् तस्य 'प्रोक्तात्' | ६ |२| १२६ । इति लुप एवं प्रक्रियां गम-सेन कठशब्देन कठोक्तशाखाध्येता कथ्यते । अत्र 'गोवं च चरणैः सह' । इति वचनात् वरंणलक्षणजातित्वं तविषयप्रश्नेऽयं समासः । कतमश्चासो माश्वेति कतममाग्य: । गर्गस्य वृद्धमपत्यमिति 'गर्गादेर्य १६।१।४२। इति वृद्धापत्ये यत्र । अपत्यप्रत्ययान्तत्वेनाथ गोत्रलक्षणजातित्वम् तदिवषयप्रश्नेऽयं समासः । अनन्तरापत्य वृद्धापत्यं युवापत्य च गोत्रम् तदभिधायिनोऽ - पत्यप्रत्ययान्ता अपि अभेदोपचारात् मोत्रम् । कतरः शुल्क इत्यादि - जातिप्रश्न इत्युपादानम् कतरः शुल्क इत्यत्र गुणप्रश्नस्य कतमो गन्तेत्यत्र क्रियाप्रश्नस्य गम्यमानत्वात् समासो न भवति । 'विशेषणं विशेष्ये ० ' | ३|१|६५ | इत्येव सिद्ध जातिप्रश्न एवेति नियमार्थं वचनम् ||१०||
किं क्षेपे |३||9901
frratri गम्यमानायां किमित्येकार्थं कुरस्यवाचिना समासस्तत्पुरूषः कर्मधारयश्च स्यात् । किंराजा । किंगोः । क्षेपइति किम् । को राजा तत्र ॥११०॥
1
निन्दा - दोषोद्घोषणम् । को राजा किराजा यो न रक्षति । प्रजानां रक्षणं राज्ञः कर्तव्यं तदनाचरणात्तस्य कुत्सितत्वमिति भावः । को गोः किंगी बो न वहति । गौर्नाम भारवहनार्थः तदभावे स किंगौरिति क्षिप्यते । 'न किमः क्षेपे ७|३|७० | इति समासान्तप्रतिषेधात् किराजः इत्यंत्र "राज