________________
( १०७ )
पूजायामिति किम् । सुसीमो नागः ॥ १०८ ॥
वृन्दारक इव वृन्दारकः । गौश्वासी वृन्दारकश्च गोवृन्दारकः । वृन्दारकशब्दो देववाची स गवादिना समानाधिकरणमलभमानः तात्पर्यमूलकलक्षणया स्वसदृशार्थपरः । तथा च गोवृन्दारक इति समासस्य वृन्दारकसदृशो गौरित्यर्थः । यथा सर्वप्राणिषु देवाः श्रेष्ठास्तथा गोष्वयं श्रेष्ठः पूज्य इत्यर्थः । अत्र वृन्दारकशब्दो वृन्दारकगतं पूज्यत्वं गुणमाश्रित्य गवि वर्तते अतो गोः प्रशंसा पूजा गम्यते इत्यर्थः । नागो हस्ती । नाग इव नागः । नागश्चासौं गौश्चेति गोनागः नाग इव बलेवानित्येवमुच्यते । कुञ्जरो हस्ती कुञ्जर इव कुञ्जरः । गौश्चासी कुञ्जरश्च गोकुञ्जरः । वृन्दारकादीनां जातिशब्दत्वेऽपि उपमानात्पूजावगतिः । शोभना सीमा स्फटा यस्य स सुसीमो नागः । नाव नागशब्द: पूजां गमयति किंतु जातिमात्रम् । स्फटा फणेत्यर्थः । नन्वत्र सुसीमत्वेन शोभनकणतया नागस्य पूजा गम्यत इति कथं समासो न भवतीति चेत्सत्यं 'पूजायाम्' इत्यनुवृत्तेन 'वृन्दारक नागकुञ्जराः विशिष्यन्ते तथा च पूजायां ये वृन्दारकनागकुञ्जराः ये पूजां गमयन्ति तैः समासः इत्यर्थो जातः । सुसीमो नाग इत्यत्र तु सुसीमवचनः न तु नागशब्द इति समासो न भवति । व्याघ्रादेराकृति - गणत्वात् 'उपमेयं व्याघ्राद्यः साम्यानुक्ती' | ३|१|१०२ । इत्येव सिद्ध पूजायामेवेति नियमार्थं साम्योक्तावपि विधानार्थं च वचनम्, तेन गोनागः बलवानि - त्यादि सिद्धम् ||१०८ ||
Cateतमौ जातिप्रश्ने | ३|१|१०६ |
एतावेकार्थी जातिप्रश्ने गम्ये जात्यर्थेन नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । कतरकठः । कतमगार्ग्यः । जातिप्रश्न इति किम् । कतरः शुल्कः । कतमो गन्ता ॥ १०६ ॥
एतावेकार्थाविति - अन्यत्र द्वयोरेकस्मिन् निधार्ये उतरो भवति बहूनामेकस्मिन् निर्धार्ये तमो भवतीति कतरकतमयोनै कार्यत्वम् किन्तु 'बहूना प्रश्ने डतमश्च वा' | ७|३ | ५४ | इत्यनेन प्रश्नपूर्वके निर्धार्थे इतमो