________________
( १९६ )
· क्लिष्टम् । शितमशातम् । सेडिति किम् । कृताक तम् । अनिटेति किम् । अशितानशितम् ॥१०६॥ पूर्वस्यापवादः । इड्ग्रहणमर्थभेदाहेतोविकारस्योपक्षणम्, तेन शिताशातमित्याद्यपि न भवति ॥१०॥
सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ।३।१११०७) एतान्येकार्थानि पूजायां गम्यमानायां पूज्यवचनैः सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् । सत्पुरुषः । महापुरुषः । परमपुरूषः । उत्तमपुरुषः । उत्कृष्टपुरूषः । पूजायामिति किम् । सन्घटो इस्तीत्यर्थः ॥१०७॥ .. संश्चासौ पुरुषश्च सत्पुरुषः । महांश्चासौ पुरुषश्च महापुरुषः । 'जातीय०' ।३।२७०। इति डाः । ननु महाजनः, महोदधिः' इत्यत्र वैपुल्यस्य गम्यमानत्वात्पूजाया गम्यमानत्वाभावात् कथं समास इति चेत् सत्यम् बहुलाधिकारात् भवति । पूजायामेवेति नियमाथं वचनं पूर्वनिपातव्यवस्थाएं च तेन सच्छुल्कः' इत्यादी खञ्जकुण्टादिवदनियमेन, पूर्वनिपातो न भवति "परमजरन् इत्यत्र 'पूर्वकालै०' ।३।२९७। इत्यनेन महावीर इत्यत्र 'पूर्वापरप्रथम०।३।१।१०३। इत्यनेन परममहान् इत्यत्र च 'सन्महत्परम०' ३।१।१०७। इत्यनेन समासे सति स्पर्धे परमिति यथा परं पूर्वनिपातश्च सिद्धौ भवति । परममहान् इत्यत्र परममहतोरेकसूत्रपठितयोरपि परस्परं समासे पाठापेक्षया परमशब्दस्य परत्वेन तस्यैव पूर्वनिपातात 'परम'महान्' इति भवति ।।१०७।।
वृन्दारकनागकुञ्जरैः ।३।१।१०८। पूजायां गम्यायामेभिः सहः पूज्यवाच्येकार्थ समासस्तत्पुरुषः कर्मधारयश्च स्यात् । गोवृन्दारकः । गोनागः । गोकुञ्जरः ।