________________
( १०५ )
दर्शयति, न च तत्कृतौ श्रेणिस्वरूपेऽभूततद्भावोऽस्तीति व्यर्थाभावः, निगृहीताः दण्डिताः अनुगृहीता उपकृताः सत्कृता वा, कृतशब्दस्य निगृहीतादिशब्दाना - मर्थेषु वृत्तिर्न सम्भवतीति तु न शङ्खयम् करोतेः क्रियासामाभ्यवाचित्वादनेकार्थत्वादवा धातूनाम् । बहुवचनमाकृतिगणार्थम् । श्रेणिकृता इत्यादौ क्रियाकारकसम्बन्धमावं न विशेष्य- विशेषणभाव इति वचनम् ।
क्तं नञादिभिन्नैः | ३|१|१०५॥
क्तान्तमेकार्थं नञ्प्रकारैरेव यानि भिन्नानि तैः सहसमासस्तत्पुरुषः कर्मधारयश्च स्यात् । कृताकृतम् । पीताऽवपीत्तम् । क्तमिति किम् । कर्त्तव्यमकर्त्तव्यं च । नञादिभिन्नैरितिकिम् । कृतं प्रकृतं । कृतञ्चाविहितं च ॥ १०५ ॥
कृतं च तदकृतं च कृताकृतम् । पीतानपीतमिति आदिशब्दोपादानेन 'अप वि अव' प्रभृतीनां संग्रहों भवति । इदः क्तावयवत्वाद्विकारस्य त्वेकदेशविकृतस्यानन्यत्वान्न भेदकत्वम् तेन क्लिष्टाकिशितम्, पूतापक्तिमित्याद्यपि भवति । कृतं प्रकृतमिति कृताकृतादिषु हीषदसमाप्तिचोतकस्य नत्रः प्रयोगात् तदादयोऽपीषद समातिद्योतिनामपादीनां ग्रहणादिह प्रकृष्टार्थ द्योतकस्य प्रस्याग्रहणान्न भवति समासः । कृतं चाविहितं चेत्यत्र प्रकृतिभेद: । 'कृत् सगति०' | ७|४ | इति विहितेत्यस्य क्तान्तत्वमस्ति अत्रयवधर्मेण समुदायव्यपदेशात् कृताकृतादिष्वैकार्थ्यम् । 'विशेषणं विशेये ३६ इत्येव समासः सिद्धः, क्रियाशब्दत्वादनियमेन पूर्वापरनिपाते प्राप्ते पूर्वनिपातनियमार्थं वचनम् तेनाकृत कृतमित्यादि न भवति ॥ १०५ ॥
सेनाऽनिटा | ३|१|१०६ ।
सेट कान्तं नमाविभिन्नेनानिटा सह न समस्यते । क्लिशितम