________________
( १०४ )
सापेक्षत्वेऽपि समासो भवति तेन राजपुरुषः दर्शनीयः इत्यादि सिद्धम् ॥१०२॥
पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम् ।३।१।१०३ एतान्येकार्थानि नाम्ना परेण समासस्तत्पुरुषः कर्मधारयश्च स्युः । पूर्वपुरुषः । अपरपुरुषः। प्रथमपुरुषः। चरमपुरुषः । जघन्यप रुषः । समानपुरुषः । मध्यप षः । मध्यमपुरुषः। वीरपुरुषः ॥१०३॥ पूर्वश्चासौ पुरुषश्च पूर्वपुरुषः । एवं सर्वत्र 'विशेषणं विशे०' इत्यादिनैव . सिद्ध 'स्पद्ध' IT यष सहोपात्तानामेव मध्ये द्वयोः परस्परं समासस्तत्र परपठितस्यैव पूर्वनिपातो यथा स्यादित्येवर्थमद्रव्यवाचिनोरमियमेन पूर्वापरभावप्रसक्ती पूर्वनिपातनियमाथं च वचनम् । तेन पूर्वजरन्, बीरपूर्वः, पूर्वपटु इत्यादि सिध्यति ।।१०३॥
श्रेण्यादि कताद्यश्च्व्य
र्थे ।३।१।१०४॥
श्रेण्याबकार्थ कृताद्य सह व्यर्थे गम्ये समासस्तत्पुरुषः कर्मधारयश्च स्यात् । श्रेणिकृता । अमकृताः। व्यर्थइति किम् । श्रेणयः कृताः केचित् ॥१०४॥ एक-शिल्पोपजीविनामे कपण्योपजीविनां वा सङ्घः श्रेणिः अश्रेणयः श्रेणयः कृताः श्रेणिकृताः पुरुषाः । अत्र च्व्यर्थस्य समासेनैवीक्तत्वादुक्तार्थानामप्रयोगः इति निषेधात्समासात्पश्चान्न विप्रत्ययः इति न तन्निमितो दीर्घः । अनूकाः ऊका कृताः-ऊककृताः राशिस्थानिकृता इत्यर्थः। श्रेणयः कृताः केचिदिति- किञ्चिन्निगृहीता अनुगृहीता वेत्यर्थः । न चात्रापि अकृतस्यैव करणं भवतीति व्यर्थस्य प्रतीयमानत्वादत्रापि कथं न समास इति वाच्यं श्रेणिस्वरूपोपलक्षितानामेव श्रेणिस्वरूपादन्यत्क्रियमाणमनेन