________________
.. ( १०३ )
तदर्थो ग्राह्यः तदनुरोधादुपमानमित्यत्रापि तदर्थों ग्राह्यः अर्थे च कार्यासंभवात् तद्वाचिनि शब्दे प्रतिपत्तिः। एकार्थमितीहानुवर्तते तथा च योऽर्थों निष्पन्नस्तमाह उपमानवाचीत्यादि-शस्त्रीव शस्त्री चासो श्यामा च शस्त्रीश्यामा शस्त्रीव श्यामेत्यर्थः । शस्त्रीशब्दोऽत्र लक्षणया शस्त्रीसदशायां देवदत्तायां वर्तते श्यामाशब्दोऽपि श्यामत्वगुणविशिष्टायां देवदत्तायां वर्तते इति सामानाधिकरण्यमैकार्थ्यं भवति । मृगीव मृगी सा चासो चपला च- मृगचपला । अत्र 'पुवत् कर्मधारये' ।३।२।५७। इति मृगीशब्दस्य वनावः। 'विशेषणं विशेष्येण०' ।।१।६६। इत्येव समासे उपमानोपमेययोः साधारणधर्म-प्रतीत्यन्यथानुपपत्त्यैव पूर्वनिपाते च सिद्ध उपमानं सामान्यैरेवेति नियमार्थं वचनम्, तेनाग्निर्माणवक इत्यादी विशेषणसमासोऽपि न भवति । माणवको बालकः अग्निशब्दो लक्षणयान्निसदृशपद: ।।१०१॥
उपमेयं व्याघा : साम्यानुक्तौ ।३।१।१०२। उपमेयवाच्येकार्थमुपमानवाचिभिर्व्याघ्रायः साधारणधर्मानुक्तो समासस्तत्पुरुषः कर्मधारयश्च स्यात् । पुरुषव्याघ्रः। श्वसिंहो । साम्यानुक्ताविति किम् । पुरुषव्याघ्रः शूर इतिमाभूत ॥१०२॥ व्याघ्र इव व्याघ्रः पुरुषः सः चासो व्याघ्रश्च पुरुषव्याघ्रः। शुनी चासो सिंही च श्वसिंही अत्रापि कर्मधारयात्वद्भावः । बहुवचनमाकृतिगणार्थम् । उषमानं । सामान्य रेवेत्यवधारणेन विशेषणसमासे प्रतिषिद्ध उपमानभूतानां व्याघ्रादिशब्दानामुपमेयेन सहापि विशेषण-समासो न स्यादिति समासविधानार्थं वचनम् किञ्च विशेषण-समासेऽन्न विशेष्यविशेषणयोरुभयोरपि द्रव्यवाचकत्वेन विशेष्य-विशेषणभावस्य च विवक्षाधीनत्वात् कदाचित्पुरुषस्य कदाचिद् व्याघ्रस्य च पूर्वप्रयोगः स्यादिति पूर्वप्रयोगनियमार्थमपि सूत्रस्यावश्यकत्वम् अन्यथा खञ्जकुण्टवदनियमः स्यात् । न च पुरुषः व्याघ्र इव शूरः इत्यत्र शूरसापेक्षत्वेन सापेक्षभसमर्थमिति न्यायात् व्याघ्रपदेनासामदेिव समासाभावात् साम्यानुक्ताविति प्रतिषेधोऽनर्थकः इति वाच्यम् इदमेव प्रतिपेधवचनं ज्ञापकम्-प्रधानस्य