________________
( १०२ )
कर्म्मधारयश्च स्यात् । वैयाकरणखसूची मीमांसक दर्द रूढः । निन्द्यमिति किम् ? वैयाकरणश्चौरः । अपापाद्य रिति किम् । पापवैयाकरणः । हतविधिः ॥ १०० ॥
वैयाकरणश्चासो खसूची च वैयाकरणखसूची, यः शब्दं पृष्टः सन् निष्प्रतिभत्वात् खं सूचयति स एवमुच्यते । मीमांसकश्चासौ दुर्दुरूढ: मीमांसकदुर्दुरूढः । दुर्दुरूढः नास्तिकः क्वचित् दुर्दुरूट इति पाठ उपलभ्यते - तत्र दुःपूर्वात् दृणातेः 'दुरोद्रः कूटश्च दुर्च' । उणा० १५६ । इति किति ऊप्रत्यये दुरुदेशे च दुदुं रुट इति पृषोदरादिपाठात् टस्थाने ढकारे दुदु रुढः इति । वैयाकरणश्चौर इति - प्रत्यासत्ते निन्द्यशब्दप्रवृत्तिनिमित्तकुत्सायामयं समास इष्यते न चात्र चौर्येण वैयाकरणत्वं कुत्स्यते यस्मात् चौरोऽपि सम्यग् व्याकरणमधीते वेत्ति वा तस्मान्नात्र वैयाकरणत्वं प्रवृत्तिनिमित्तं कुत्स्यते । किंर्ताह ? तदाश्रयो द्रव्यं वैयाकरणत्वं तदुपलक्षणमात्रम् तेनात्र विशेषणसमासो भवति चौरवैयाकरणः । पापवैयाकरण इति - पापश्चासौ वैयाकरणश्चेति विग्रहः हतविधिरिति हतश्चासौ विधिश्चेति च विग्रहः । पापवैयाकरणः इत्यादिषु पूर्वनिपाते कामचारः विशेष्य-विशेषणभावस्य विवक्षाधीनत्वात् तथा च वैयाकरणस्य विशेषणत्वविवक्षायां वैयाकरणपापः इत्याद्यपि भवति । हतविधिरित्यादिषु तु जातिशब्देषु पापादेरेव विशेष णत्वमिति तस्यैव प्राग्निपातः । अधीतस्यानधीतरूपं हि पापमस्मिन् fara इति व्याकरणाध्ययनरूपं वैयाकरणत्वमेव निन्द्यते एवं हतविधिः । विशेष्यस्य पूर्वनिपातार्थं वचनम् । बहुवचनं प्रयोगानुसरणार्थम् ॥ १०० ॥
उपमानं सामान्यैः | ३|१|१०१ |
उपमानवाच्येकार्थमुपमानोपमेयसाधारणधम्र्म्मवाचिभिरेव समासस्तत्पुरुषः कम्र्म्मधारयश्च स्यात् । शस्त्रीश्यामा । मृगचपला । उपमानमिति किम् । देवदत्ता श्यामा | सामान्यैरिति किम् । अग्निर्माणवकः ॥ १०१ ॥
उपमीयतेऽनेनेत्युपमानम् । उपमानोपमेययोः साधारणो धर्मः सामान्यम् । सामान्यैरेवेति बहुवचननिर्देशः स्वरूपविधेनिरासार्थः तेन सामान्यशब्दैन