________________
( १०१ )
•
बहुब्रीहिः पश्चात् धनशब्दे उत्तरपदे परतः पूर्वयोः पदयोस्तत्पुरुषस्तस्मिन् संति 'गोस्तत्पुरुषात् ' | ७ | ३ | १०५ | इति समासान्तेऽटि ततोऽवादेशः । पञ्च नाव: प्रिया यस्य स पञ्चनावप्रियः अत्रापि त्रयाणां बहुव्रीही पूर्वयोस्तत्पुरुषसंज्ञा कर्मधारयसंज्ञा द्विगुसंज्ञा च । तत्र द्विगुसंज्ञया' नाव: 1७|४|| १०४ । इति समासान्तेऽटि ततः आवादेशः । पञ्चानां राज्ञां समाहारः पञ्चराजी अत्र 'द्विगोरो' | ७|३|| इति समासान्तोsट् 'नोऽपदस्य तद्धिते' | ७|४|६१ | इत्यन्त्यस्वरादिलोपः
पात्रादिवर्जिताददन्तोत्तरपदः समाहारे । द्विगुरन्नावन्तान्तो वाऽन्यस्तु सर्वो नपुंसकः ||१||
इति लिङ्गानुशासने अन्नन्तस्य विकल्पेन स्त्रीत्वानुशासनात् स्त्रीत्वपक्षे 'द्विगोः समाहारात्' | २|४|३२| इति ङीश्च पञ्चराजीति स्त्रीत्वाभावपक्ष नपुंसकत्वे सति पञ्च राजमिति च भवति । अनन्तरोक्तकारिकार्थश्चायम्पात्रादिगणवर्जितमकारान्तमुत्तरपदं यस्य स तथाविधो द्विगुः समाहारे वर्तमानः स्त्रीलिङ्गः, अन्नन्तमावन्तं च यदुत्तरपदं तदन्तो द्विगुः समाहारे वर्तमानो वा स्त्रीलिङ्गः उक्तस्त्रीत्वादन्यो द्विगुः समाहारे वर्तमानः सर्वो नपुंस इति । अष्टौ प्रवचनमातरः इति अत्र समाहारस्याविवक्षा । ईर्यासमित्यादिपञ्चसमितयः मनोगुप्त्यादित्रिगुप्तयः इमा अष्टौ प्रवचनमातरः जिनप्रवचने उक्ता: अत्र 'विशेषणं विशेष्येणै०' |३|१|६| इत्यनेनापि समामो न भवति नियमार्थत्वादस्य नियमाकारश्चायम्- संख्यावाचिनः समाहार-संज्ञा - तद्धितोत्तरपद एव समासेा भवति नान्यत्वेति पाञ्चर्षमिति - - पञ्चर्षीणामिदं पाञ्चर्षम् अत्र 'पञ्चषि' इत्यस्य द्विगुसंज्ञायां सत्यामनपत्यप्रत्ययस्य तस्येदम्' | ६ | ३ | १६० । इत्यण्प्रत्ययस्य 'द्विगोरन० ' | ६|१|२६ । इत्यनेन लुप भवति । तद्वारणार्थम् 'अनाम्नि' इत्यावश्यकमेव । ननु सुते 'अयम्' इत्यस्य ग्रहणाभावेऽपि सन्निधानादेव 'द्विगुश्च' इत्यस्यैव 'अनान' इत्यनेन संबन्ध: स्यादिति 'अयं -ग्रहणम् विफलमिति चेत्सत्यमग्रहणमुत्तरत्र 'द्विगुश्चेत्यस्याननुवृत्त्यर्थम् ||६||
निन्द्य कुत्सन र पापाद्यं: | ३|१|१०० |
निन्द्यवाचि निन्दाहेतुभिः पागादिवर्णैः सह समासस्तत्पुरुषः