________________
( १०० )
न हि तद्धिते वाक्यमस्ति । उत्तरपदे - उत्तरो गौर्धनमस्येति - उत्तरगवधनः अत्र पूर्वं त्रिपदबहुग्रीही पश्चात् धनशब्दे उत्तरपदे परतः पूर्वयोः पदयोस्तत्पुरुषः तस्मिन् सति' गोस्तत्पुरुषात्' ७ । ३ । १०५ । इति समासान्ते - टि ओकारस्यावादेशः । एवं अधिको गौः प्रयोऽस्येति अधिकगवप्रियः । समासेऽन्त्यं पदमुत्तरपदं विज्ञायते । उत्तरपदेऽपि नित्यं समासः त्रयाणामेकार्थीभाव एवोत्तरपदसंभवात् तत्र च द्वयोर्व्यपेक्षाभावात् । 'विशेषणं विशेष्येण ० ' | ३|१|६| इत्येव सिद्धे नियमार्थं वचनम् दिगधिकं संज्ञातद्धितोत्तरपद एव समस्यते . नान्यत्रेति तेन उत्तरा वृक्षाः इत्यत्र समासो न भवति ॥ ८ ॥
संख्या समाहारे च द्विगुश्चानाम्न्ययम् | ३|१|ई|
संख्यावाचि परेण नाम्ना समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । संज्ञातद्वितयोविषये उत्तरपदे च परे संमाहारे चार्थे, अयमेव चासंज्ञायां द्विगश्च । पचास्राः । सप्तर्षयः । द्वौ मातुरः अध्यर्धकंसः । पञ्चगवधनः । पञ्चनावप्रियः । पञ्चराजी । समाहारे चेति किम् । अष्टौप्रवचनमातरः । अनाम्नीति किम् । पाञ्चर्षम् ।
।
॥६६॥
अनेकस्य कथञ्चिदेकत्वं समाहारः । संज्ञायाम् पञ्च ते आम्राश्वेति पञ्चाम्राः सन्निवेशादिविशिष्टानां पञ्चानामाम्राणामियंसंज्ञा । सप्त च ते ऋषयश्च सप्तर्षयः सप्तानामृषिविशेषणामियं संज्ञा । ते चेमे
1
'मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वशिष्टश्च महातेजाः सप्तमः परिकीर्तितः ॥ | १ || ' इति तद्धिते-द्वयोर्मानोरपत्यं द्वैमातुरः अत्र 'संख्यासंभद्रातु०' |६|१|६६ । इत्यण्प्रत्ययः मातृशब्दस्य : 'मातुर्' इत्यादेशश्च । अध्यर्द्धण कंसेन क्रीतः अध्यर्धकंसः ‘कसमासेऽध्यर्ध' | १|१|४१ | इत्यध्यर्धशब्दस्य संख्याशब्दत्वम् । अध्यर्धेणेत्यस्यार्धसहितेनैकेनेत्यर्थः कंसेन परिमाण - विशेषेण अत्र 'कं साधत्' | ६ |४| - | १३५ । इतीकट् भवति तस्य च 'अनाम्न्य' | ६ | ४ | १४१ | इति लुप भवति । उत्तरपदे- -पञ्च गावो धनमस्येति पञ्चगवथनः अत्र पूर्वं त्रयाणां पदानां