________________
(
६
)
इत्यर्थः । पूर्व स्नात: पश्चादनुलिप्तः स्नातालिप्तः वृत्तिस्वाभाव्यात् स्नानोत्तरमेव चन्दनादिसेवनरूपानुलेपनस्य प्रसिद्धत्वाच्च समासे पूर्व कालत्व-स्यापरकालत्वस्य च पूर्वोत्तरपदार्थयोर्गम्यमानत्वात् तत्र पूर्वापरकालवाचिशब्दान्त राप्रवेशः । एका शाटी एकशाटी । शाटशब्देन त्वनभिधानान्न भवति एकः शाटः। सर्वं च तदन्न च सर्वान्नम् । जरश्वासी गौश्चेति-जरद्गवः अत्र ‘गोस्तत्पुरुषात्' ।७।३।१०५॥ इति समान्तोऽट् । पुराणश्चासो कविश्च पुराणकविः । नवा चासावुक्तिश्च नवोक्तिः । केवलमसहायं ज्ञानं केवलज्ञानम् । स्नात्वानुलिप्तः इति-स्नात्वेत्यसत्वाचिनो नानुलिप्तपदेन कार्यम् । अयमाशयः . स्नात्वेति पूर्वकालक्रियामाह न द्रव्यम्, अनुलिप्तेति तु द्रव्यमाह, अतो भिन्नार्था-विमो नैकार्था-वित्यर्थः । पूर्वेणैव सिद्ध पुनर्वचनं स्पर्धे परमिति पूर्वनिपातस्य विषयप्रदर्शनार्थं पूर्वाsपरकालवाचिनोरद्रव्यशब्दत्वात् च खञ्जकुण्टादिवद-नियमे प्राप्ते पूर्वकालवाचिन एव पर्वनिपातार्थ च । अत्र शब्दस्पर्धः तथाहि-प्रकृतसूत्रे ये शब्दा निहिताः तेषां मिथः समासे सति सूत्र-मध्ये यः शब्दोऽग्रे निहितः तस्य पर्वनिपातो भवति यश्च पूर्व निर्दिष्टः स परतो भवति स्पर्द्ध परमिति न्यायात् यथा-के क्लपुराणमित्यादिषु ॥१७॥
दिगधिकं संज्ञातद्धितोत्तरपदे ।३.१६८। दिग्बाच्यधिकं चैकार्थ नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । संज्ञायां तद्धिते च विषयभूते उत्तरपदे च परतः । दक्षिणकोशला । पूर्वेषु-कामशमी। दक्षिणशालः । अधिकषा•ष्टिकः । उत्तरगवधन । अधिकगवप्रियः ॥१८॥ दक्षिणाः कोशलाः दक्षिणकोशलाः एवं-नामा जनपदः । पूर्वा चासाविषुकामशमी च पूर्बोषुकामशमी एवंनामा ग्रामः । संज्ञायां नित्यसमासः नहि वाक्येन संज्ञा गम्यते । पूर्वोत्तरविभागप्रदर्शनार्थं तु विग्रहवाक्यम् । तद्धितेदक्षिणस्यां शालायां भवः दाक्षिणशालः। अधिकया षष्ठ्या क्रीतः इति 'मूल्यैः क्रीते' ।६।४।१५०। इतीकणि अथवा अधिकांषष्टि भूतो भावी वेति 'तं भाविभूते'।६।४।१०५। इतीकणि अधिकषाष्टिकः । अयमपि नित्यसमासः