________________
(६८ )
तक्षकस्य सर्पत्वाव्यभिचारात् । ननु नीलमुत्पलमित्यत्र नीलमनीलादुत्पलं . व्यावर्तयतीति विशेषणम् उत्पलेन भृङ्गादिभ्यो व्यावय॑ते इति विशेष्यं च भवति, एवमत्पलं भृङ्गादिभ्यो नीलं व्यावर्तयतीति विशेषणं, नीलेन रक्तोत्पलादिभ्यो व्यावर्त्यते इति विशेष्यं च भवतीति उभयोविशेषणं विशेष्यं भवति उत्पलमपि विशेषणं विशेष्य च भवति तथा च नीलमिति विशेषणं विशेष्यं योश्च विशेष्यत्वे सति विशेष्यस्यापि विशेषणत्वमित्युत्पलशब्दस्यापि नीलादिना समासप्रसङगः, तथा च 'प्रथमोक्तप्राक' ।३।१।१४८। इति वचनादुत्पलनीलमित्यपि स्यात् इति चेन्मैवं पूर्वदर्शितरीत्या यथा नीले विशेष्यविशेषणभावः तथोत्पलेऽपीति विशेष्यविशेषणभावस्य साम्येऽपि 'प्रधानानुयाय यप्रधानम्' इति न्यायादप्रधानस्यैव प्रधानेन समासः प्राधान्यं च द्रव्यशब्दानामेव, द्रव्यस्यैव साक्षात् क्रियाभिसम्बन्धात् । यस्तु गुणादिशब्दानामेव समासस्तनोभयोरपि पदयोरप्रधानत्वात् कामचारेण पूर्वापरनिपातः खजश्चासौ कूण्टश्च खञ्जकूण्ट: एवं कुण्टखजः । वृद्धोक्षेतिवि-शेषणं द्विविधं समानाधिकरणं व्यधिकरणं चेति । समानाधिकरणं नीलो घट इति । व्यधिकरणं राज्ञः पुरुष इति तत्र व्यधिकरणे विशेषणे 'वृद्धस्य उक्षा' इत्यत्रानेन समासो मा भूदित्येतदर्थमेकामिति प्रदत्तम् तथा च 'वृद्धोक्षा' इत्यत्र नानेन समासः किन्तु 'षष्ठ्ययत्ना०' ।३।१७६। इति षष्ठीसमासः' कर्मधारये तु 'जातमहद्०' ।३।१९५॥ इति समासान्तेऽ ति वृद्धोक्ष इति स्यात् स तु नेष्ट इति ।।६।।
पूर्वकालौकसर्वजरत्पुराणनवकेवलम् ।३।१६७। पूर्वकालो यस्य तद्वाच्येकादीनि चकार्थानि परेण नाम्ना समासस्तत्पुरूषः कर्मधारयश्च स्यात् । स्नातानुलिप्तः । एकशाटी। सन्निम् । जरद्गवः । पुराणकविः । नवोक्तिः । केवलज्ञानम् । एकार्थमित्येव । स्नात्वानुलिप्तः ॥७॥ 'पूर्वकाल' इत्यर्थप्रधानो निर्देशः । पूर्वः कालो यस्यार्थस्य स-पूर्वकालः । पूर्वकालः संवन्धिशब्दत्वादपरकालेन समस्यते । तत्र वाचिनि प्रतिपत्तिः अर्थे कार्या-सम्भवादित्याह-तद्वाचीति पूर्वकालवाचि अपरकालवाचिना समस्यत