________________
( ३७ )
|७|१|३५| इति ये 'ऋतोरस्तद्धिते' | १|२/२६ | इति ऋकारस्य रकारे 'पित्र्य' इति । अत्र तद्धितो यप्रत्ययो न तु कृदिति समासो न भवति ॥ ६५ ॥
विशेषणं विशेष्येणैकार्थ कर्म्मधारयश्च | ३|१|६६ | भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकस्मिन्नर्थे वृत्तिरैकार्थं तद्वद्विशेषणवाचि विशेष्यवाचिनैकार्थे समासस्तत्पुरुषः कर्मधारयश्च स्यात् । नीलोत्पलम् खञ्जकुटः । कुण्टखञ्जः । एकार्थमिति किम् । वृद्धस्योक्षा वृद्धोक्षा ॥ ९६ ॥
विशिष्यते नेकप्रकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यतेऽनेनेति विशेषणं, व्यवच्छेद्य विशेष्यम् ऐकार्थ्यं तद्वदेकार्थं विशेषणवाचि नामैकाथं विशेव्यवाचिनानाम्नां सह समस्यते । स च समासस्तत्पुरुष - संज्ञः कर्मधारयसंज्ञश्व भवति । ऐकार्थ्यं समानाधिकरण्यम् समानमधिकरणमर्थो ययोस्तौ समानाधिकरणौ तयोर्भावः सामानाधिकरण्यम् शब्दस्याधिकरणमर्थ एव अर्थे एवं शब्दप्रयोगात् । अयमाशयः नीलमुत्पल मित्यादौ पदद्वयमप्येकमेव द्रव्यमभिधत्ते नीलपदस्यापि नीलरूपवद्द्रव्यपरत्वात् । एवं चोभयोः सामानाधिकरण्यम् स्पष्टमेव । विशेषण- विशेष्ययोः सम्बन्धिशब्दत्वादे कतरोपादानेनैव द्वयोर्लब्धं द्वयोरूपादानं परस्परनुभयोर्व्यवच्छेदक वे समासोयथा स्वादित्येवमर्थं तेनेह न भवति तक्षकः सर्पः लोहितस्तक्षक इति, असर्पस्याऽन्यवर्णस्य वा तक्षकस्या भावात् । अयमाशयः - यत्र पूर्वोत्तरपदे प्रत्येकं विशेषणविशेष्यभूते भवतस्तत्रैव समासो भवतीति ज्ञापनार्थमुभयोरुपादानं यथा नीलोत्पलमिति । अत्र नीलार्थो भ्रमरादिभ्यो व्यावर्त्योत्पला
नोत्पले व्यवस्थाप्यते उत्पार्थोऽपि रक्तोत्पलादिभ्यो व्यावर्त्य नीलार्थेन व्यवस्थाप्यते इत्यस्ति प्रत्येकं विशेषणविशेष्यभाव: । 'तक्षकस्तु लोहिताङ्गः स्वस्तिकाङ्कितमस्तक' इति सर्पविशेषस्य 'तक्षक' इति संज्ञा । यद्यपि तक्षकः सर्पस्य विशेषणं भवत्येव । तथाहि 'सर्प' इत्युक्त' सर्पसामान्यं प्रतीयते, न सर्पविशेष: तक्षकः इत्युक्ते तु सर्पविशेषोऽ तक्षकाद् व्यावृत्तः प्रतीयते, तथापि यत्रैकैकस्योभयत्र भावस्तव समास इति, न च सर्वार्थस्य तक्षकः कदाचित् विशेष्यो भवति कथ न भवति ?