________________
( ६६ )
समासस्तत्पुरुषः स्यात् । तत्रकृतम् । पूर्वाणक तम् । पूर्वरात्रक तम् । तत्राहोरात्रांशमिति किम् । घटे क तम् । अहोरात्रग्रहणं किम् । शुक्लपक्ष क तम् । अंशमिति किम् । अह्नि भुक्तं रात्रौनृत्तम् ॥६॥ पृथग्योगात्, क्षेप इति निवृत्तम् । तत्र त्यस्य सप्तम्यन्तत्वं सप्तम्यर्थवृति- . त्वात् यद्यपि तत्रभवानित्यादावन्यवि-भक्तयर्थमपि तत्र' इति तथापि प्रकृते प्रकरणात् सप्तम्यर्थकं ज्ञेयम् एवं 'तत्र' इति स्वरूपस्यात्र ग्रहणं नतु सामान्येन सप्तम्यर्थबोधकस्य । शुक्लपक्षे कृतमिति-पक्षो मासांशः इत्यहोरात्रग्रहणात् समासो न भवति ।।६३॥
-
-
नाम्नि ३१६४॥
सप्तम्यन्तं नाम्ना संज्ञाविषये समासस्तत्पुरुषश्च स्यात् । अरण्येतिलकाः, अरण्येमाषकाः ॥१४॥ अरण्येतिलका इत्यादि-तिलः प्रकारः एषामिति तिलकाः वृक्षविशेषाः । माषः प्रकारः एषामिति माषकाः वृक्षविशेषाः 'कोऽण्वादेः' ७।२७६। इत्युभयत्र कः । 'अद्-व्यञ्जनात्सप्तम्या बहुलम्' ।३।२।१८। इति सप्तम्या अलुप् । वाक्येन न संज्ञा गम्यते इति नित्यसमासोऽयम् ॥१४॥ .
कृद्य नावश्यके ॥३॥१६॥ सप्तम्यन्तं नाम 'यएच्चात ।५।१।१८। इतियान्तेनावश्यम्भावे गम्ये समासस्तत्पुरुषश्च स्यात् । मासदेयम् । क दिति किम् । मासे पित्र्यम् ॥६५॥ 'अवश्यम्' इत्यव्ययं निश्चयार्थे तस्य भावः इति 'चोरादेः' ।७।१।७३। इति सूत्रणाकञ्प्रत्यये मकारलोपे आद्यस्वरस्य वृद्धौ च 'आवश्यक' इति मासेऽ वश्यं देयम् मासदेयम् । पित्र्यमिति-पित्रे हितमिति 'तस्मै. हिते'