________________
( ५ )
समागताः भोजने एव सन्ति न कार्यान्तरे ते पात्रेसमिता: । 'तत्पुरुषे कृति' ।३।२।२०।इति सप्तम्याः अलुप् । गेहे एव शर: गेहे शूर: गेहे एव शौर्ययुक्तो न युद्ध इत्यर्थः । निपातनात् सप्तम्या अलुप् । अनयोरवधारणेनक्षेपो गम्यते । इति-शब्दः समासान्तरनिवृत्त्यर्थस्तेन ‘परमाः पात्रेसमिताः' पात्रेसमितानां पुनः इत्यादिषु समासो न भवति । बहुवचनमाकृति-गणार्थम् ।।६।।
क्तन ।३।१२।
सप्तम्यन्तं तान्तेन क्षेपे समासस्तत्पुरुषश्च स्यात् । भस्मनिहतं । अवतप्ते-नकुलस्थितम् ॥१२॥ . भस्मनि-हुतमिति-भस्मनि हुतमिवेति विग्रहः निष्फलं । कृतमेवमुच्यते यथा भस्मनि हत्त न हवनफलाय कल्पते तथोपमेयकार्य निष्फल मित्यवगति-रिति कार्यस्य निन्दितत्वं स्पष्टम् 'तत्पुरुषे कृति' ।३।२।२०। इति सप्तम्या अलुप । अवतप्ते न कुलस्थितमिति-कार्येष्वनवस्थितत्वमुच्यते अवतप्ते नकुलस्थितमिवेति विग्रहः स्थाधातो वे क्लीबे क्त 'स्थितम्' इति, नकुलस्य स्थितौ कर्तृ त्वम्, नकुलेन स्थितमिति ‘कारकं कृता' ।३।१।६८। इति समासे नकुलस्थितमिति कृत् सगतिकारक स्यापि' ।७।४।११७। इति परिभाषया नकुलस्थितशब्दोऽपि क्तान्तः तेन सह 'अवतप्ते' इति सप्तम्यन्तस्य प्रकृतसूत्रेण समासे कृते 'तत्पुरुषे कृति' ।३।२।२०। इति सप्तम्या अलुप् । हे देवदत्त । अवतप्ते नकुलस्थितं ते एतत् अवस्थानम् । यथा अवतप्ते प्रदेशे नकुला न चिरं तिष्ठन्ति तथा कार्याण्यारभ्य चापलेन तान्यनिवर्त्य इतस्ततः प्रधावनमित्यर्थः अव्यवस्थितोऽसीति निन्दा ज्ञेया। नित्यसमासाश्चैते पत्रेसमितादयश्च । अविग्रहोऽस्वपदविग्रहो वा नित्यसमासः इति नित्यसमासलक्षणात् प्रकृते चास्वपदविग्रहत्वान्नित्यसमासत्वं ज्ञेयमिति ॥१२॥
तत्राहोरात्रांशम् ।३.१६३।
तो-तिसप्तम्यन्तं अहरवयवा राज्यवयवाश्चसप्तम्यन्ताः क्तान्तेन